पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. ४ सू. १४ ] पातञ्जलयोगसूत्रम् १६८ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपह्नवते, ज्ञानपरिकल्पनामानं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमु- त्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥ यथैकस्माच्चन्द्राद् द्वितीयश्चन्द्रः । नियतसद्दीपलम्भश्चार्थी ज्ञानेनेति व्यापकविरुद्धो- पलब्धिः । निषेध्यभेदव्यापकानियमविरुद्धो नियमोऽनियमं निवर्तयंस्तद्वयाप्तं मेदं प्रतिक्षिपतीति । स्यादेतत्-अर्थश्चेन्न भिन्नो ज्ञानात्कथं भिन्नवत्प्रतिभासत इत्यत आह—कल्पितमिति । यथाद्दुर्वैनाशिकाः- सहोपलम्भनियमादभेदो नीलतद्धियोः । मेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये || इति । कल्पितत्वं विशदयति - ज्ञानपरिकल्पनेति । निराकरोति त इति । ते कथं श्रद्धेयवचनाः स्युरिति संबन्धः । प्रतिज्ञानमुपस्थितं प्रत्युपस्थितम् । कथम्- तथेति । यथा यथावभासत इदंकारास्पदत्वेन तथा तथा स्वयमुपस्थितं न तु कल्पनोपकल्पितं विज्ञानविषयतापन्नम् । स्वमाहात्म्येनेति विज्ञानकारणत्वमर्थस्य दर्शयति । यस्मादर्थेन स्वकीयया ग्राह्यशक्त्या विज्ञानमजनि तस्मादर्थस्य ग्राहकम् । तदेवं भूतं वस्तु कथमप्रमाणात्मकेन विकल्पविज्ञानवलेन विकल्पस्या- प्रामाणिकत्वात्तद्वलस्यापि तदात्मनोऽप्रमाणात्मकत्वम् । तेन वस्तुस्वरूपमृत्सृज्यो- पप्लुतं कृत्वा। उपगृह्येति क्वाचित्कः पाठः। तत्रापि स एवार्थः। तदेवापलपन्तः श्रद्धातव्यवचनाः स्युरिति । इदमत्राकृतम्-सहोपलम्भनियमश्च वेद्यत्वं च हेतू सन्दिग्धव्यतिरेकतयाऽनैकान्तिकौ । तथा हि-ज्ञानाकारस्य भूतभौतिकादेर्यदे- तद्वाह्यत्वं स्थूलत्वं च भासते न ते ज्ञाने संभवतः । तथा हि - नानादेशव्यापिता स्थौल्यं विच्छिन्नदेशता च बाह्यत्वम् । न चैकविज्ञानस्य नानादेशव्यापिता विच्छिन्नदेशता चोपपद्यते । तद्देशत्वातद्देशत्वलक्षण विरुद्धधर्मसंसर्गस्यैकत्रा- संभवात् । संभवे वा त्रैलोक्यस्यैकत्वप्रसङ्गात् । अत एवास्तु विज्ञानभेद इति चेत् ? हन्त भोः, परमसूक्ष्मगोचराणां प्रत्ययानां परस्परवार्तानभिज्ञानां स्वगोचरमात्र- जागरूकाणां कुतरुत्योऽयं स्थूलावभासः । न च विकल्पगोचरोऽभिलापः। संसर्गा- भावाद्विशदप्रतिभासत्वाच्च । न च स्थूलमालोचितं यतस्तदुपाधिकस्य विशदता भवेत्तत्पृष्ठभाविनः। न चाविकल्पवद्विकल्पोऽपि स्वाकारमात्रगोचरः, तस्य चास्थू- लत्वान्न स्थूलगोचरो भवितुर्महति । तस्माद्वाह्ये च प्रत्यये स्थूलस्य बाह्यस्य चासंभवादलीकमेत दास्थातव्यम् । न चालीकं विज्ञानादभिन्नम्। विज्ञानस्य तद्वत्तुच्छत्वप्रसङ्गात् । तथा च वेद्यत्वस्यामेदव्याप्यत्वाभावात्कुतो भेदप्रति-