पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यास भाष्यसमेतम् [पा. ४ सू. १४ यदा तु सर्वे गुणाः, कथमेकः शब्द एकमिन्द्रियमिति ? परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परि- णामः श्रोत्रमिन्द्रियम् । ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति । शब्दादीनां मूर्तिसमान जातीयानामेकः परिणामः पृथियीपर- माणुस्तन्मात्रावयवः । तेषां चैकः परिणामः पृथित्री गौवृत्तः पर्वत इत्येव- मादि । भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाश दानान्युपादाय सामान्य- मेकविकाराम्भः समाधेयः नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं स्वप्नादौ भवतु त्रैगुण्यस्येत्थं परिणामवैचित्र्यम् । एकस्तु परिणामः पृथिवीति वा तोय- मिति वा कुतः । नानात्मन एकत्वविरोधादित्याशङ्ङ्क्य सूत्रमवतारयति - यदा तु सर्वे गुणा इति । परिणामैकत्वाद्वस्तुतत्त्वम् । बहूनामप्येकः परिणामो दृष्टः । तद्यथा गवाश्वमहिषमातङ्गानां रुम।निक्षिप्तानामेको लवणत्वजातीयलक्षणः परि- णामो वर्तितैलानलानां च प्रदीप इति । एवं बहुत्वेऽपि गुणानां परिणामैकत्वम् । ततस्तन्मात्रभूतभौतिकानां प्रत्येकं तत्त्वमेकत्वम् । ग्रहणात्मकानां सत्त्वप्रधान- तथा प्रकाशात्मनामहंकारावान्तर कार्याणां करणभावेनैकः परिणामः श्रोत्रमिन्द्रि- यम् । तेषामेव गुणानां तमः प्रधानतया जडत्वेन ग्राह्यात्मकानां शब्द तन्मात्र- भावेनैकः परिणामः शब्दो विषयः । शब्द इति शब्दतन्मात्रम् | विषय इति जड- त्वमाह, न तु तन्मात्रस्य श्रोत्रविषयत्वसंभव इति । शेष सुगमम् । अथ विज्ञानवादिनं वैनाशिकमुत्थापयति–नास्त्यर्थो विज्ञानविसहचर इति । यदि हि भूतभौतिकानि विज्ञानमात्राद्भिन्नानि भवेयुस्ततस्तदुत्पत्तिकारण- मीदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत्कथं प्रधानकल्पनम् १ कथं च ग्रहणानामिन्द्रियाणामहंकारविकाराणां कल्पनेति १ तथा हि-जडस्यार्थस्य स्वयमप्रकाशत्वान्नास्त्यर्थो विज्ञानविसहचरः | साहचर्य संबंधः। तदभावो विसहचरत्वम्। विरभावार्थः । विज्ञानासंबन्धो नास्तीति व्यवहारयोग्य इत्यर्थः। अस्ति तु ज्ञानमर्थविसहचरम् । तस्य स्वयंप्रकाशत्वेन स्वगोचरास्तिता- व्यवहारे कर्तव्ये जडमर्थ प्रत्यपेक्षाभावात् । तदनेन वेद्यत्वसहोपलम्भनियमौ सूचितौ विज्ञानवादिना । तौ चैवं प्रयोगमारोहतः - यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते । यथा ज्ञानस्यात्मा | बेद्यन्ते च भूतभौतिकानीति विरुद्धव्याप्तोपलब्धि- निषेध्यमेदविरुद्धेन व्यासं वेद्यत्वं दृश्यमानं स्वव्यापकममेदमुपस्थापयत्त- द्विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद्येन नियतसद्दोपळम्भं तत्ततो न भिद्यते ।