पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४ ) हि वैयाकरणाः, अतस्तेषां योगित्वे न संशयलेशोऽपि । शाब्दिकानां योग- वेत्तृत्वं च प्रसिद्धमेव । शिक्षाग्रन्थेषु यद्यपि न योगविद्या क्वचिदभिहिता, तथापि ओंकारमहत्त्व- मेषु ग्रन्थेषु कीर्त्तितमेव | उच्चारणक्रियासिद्धये कूर्मवद् अङ्गसंहरणम्, स्वस्थता, प्रशान्तता, भयहीनतेत्यादयो गुणा आवश्यका इति शिक्षाविदां मतम् ( नारदीयशिक्षा १२ ) | योगशास्त्रानुगृहीता एते गुणा इति स्पष्टमेव । किञ्च, गीतक्रियाबलेन चित्तस्थैर्यमुपदिशन्ति शिष्टाः ( याज्ञ• स्मृतिः ३।११२), अतः शिक्षाशास्त्रान्तर्गतगानोच्चारणविद्याऽपि योगमूला एव । आध्यात्मिकाधिदैविकरहस्यानां प्रतिकृतिरेव याशिककर्मकाण्डेनोपवर्णिता भवतीति वयं मन्यामहे । यथाह यास्क:- “याजदैवते पुष्पफले देवताध्यात्मे वा" इति ( निरुक्तम् १।२०), अतः कल्पसूत्राण्यपि योगविद्यासहाय कानीति । 'स एष वाचश्चित्तस्य चोत्तरोत्तरिक्रमो यद् यशः' इत्यारण्यकवचनमिह स्मार्यम् ( ऐ० आ० २ | ३ | ३ ) । । निरुक्ते तु योगविद्याऽभ्युपगतैव । अत एव 'ऋषिदर्शनात्' इति निरुत- वाक्यव्याख्यानावसरे दुर्ग ऋषीणां तारकज्ञानान्विततां वर्णयति । निरुक्त- ग्रन्थस्थ त्रयोदश-चतुर्दशाध्याययोः सांख्यम्, योगः, गुणाः, अन्ये च यौगिका विषयाः स्वीकृताः । निरुक्तगतमन्त्रव्याख्यानं योगविद्यानुगतमिति स्पष्टमेव । ज्योतिषादिशास्त्राण्यपि योगविद्यासम्बन्धीनीत्यन्यत्र प्रतिपादयिष्यते । सांख्ययोगप्रतिपादकग्रन्थेषु दुष्टानि मतानि - अस्माभिरुतमेव यदिदं दर्शनमान्वीक्षिकीमार्गेण प्रोक्तम्, अती यथारुचि न कश्चिन्मेधावी शास्त्रेऽस्मिन् असंबद्धानां मतानामनुप्रवेशनं कर्तुं शक्नोति । यदि कश्चिदज्ञानतो वा न्यायदुष्टानि मतान्यत्र प्रक्षिपेत्, तर्हि द्रष्ट-दृश्य-सत्कार्यवादानुगत-दृष्ट्या तानि मतानि अपा- करणीयानि । अत एव पुराणादिषु सांख्ययोगमतरूपेण यद् भाषितं तत्र क्वचिद् अनार्थी दृष्टिरप्यस्त्येवेति प्रतीयते । भागवतगतं ( द्र० ३।२५ - ३३ अध्यायाः) सांख्य प्रकरणमस्य प्रसिद्धमुदाहरणम् । अत्र ये सन्ति श्लोकाः, ते वैष्णव संप्रदायदृष्ट्यैव रचिताः, न सांख्ययोगदृष्ट्या । तथाहि — ३|२६|१३ श्लोको न खलु सांख्ययोगविद्यादृष्टया साधुः; मोक्षानुत्कर्षप्रति- पादनात् । यथा खलु मोक्षं प्रयोजनं परम्, तथा अचरमं साधनविशेषलभ्यं विदेहलयादिपदमपि प्रयोजनमिष्टमेव यथाह सांख्याचार्यो देवल: “सायुज्यं सालोक्यं प्रकृतिलयो मोक्षश्चेति चतुर्विधं प्रयोजनम्” इति । सायुज्यादिषु दोषदर्श- नात् पुनः वशीकारवैराग्यसम्पन्नस्थ योगिनः शाश्वतिकरोधार्थम् प्रयत्नो भवति तत्त्वज्ञानपूर्वकम् । अत एव भागवतसंप्रदायीयाज्ञतामूलकं दर्शनमस्मिन् श्लोके