पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न च पारमर्षी योगविद्या अंशतोऽवैदिकी इति युक्त्या सिद्धयति (द्र० उ० मी० २।१।३ व्याख्याः ) । ऐकाग्रयप्राणायामादयो वैदिका, अतस्तजात- ज्ञानं तज्ज्ञानलब्धाः प्रमेयाश्च सर्वे वैदिका इति मन्तव्यमेव, प्रमाणस्य वैदिकत्वे प्रमितेरपि वैदिकत्वात् । यदि महदादयः समाधिप्रज्ञानिर्ग्राह्याः, समाधिश्च वैदिकस्तर्हि महदादयः पदार्था अवैदिका इति कथनं (द्र० शारीरक २।१।२ ) प्रलपनमेव । मीमांसाशास्त्रेण सह योगविद्यायाः संबन्धोऽस्ति, न वेति विचार्यते । कर्म- काण्डपराणि वेदवचांसि इह मीमांसितानि, अतोऽत्र योगविद्याया न प्रसङ्गा- वसरः । याशिकं कर्मकाण्डमपि आध्यात्मिकाधिदैविकरहस्यमनुकरोतीति विद्मो वयम्, अतो न कर्मकाण्डं तत्त्वज्ञान विरोधि । अग्निहोत्र-दर्शपूर्णमासा- दयः कर्माणि बाह्ययागाः, परन्तु तानि अन्तर्यागं बोधयन्ति इति गुरुपरम्परातो विज्ञेयम् । किञ्च, ब्रह्मसूत्रे यानि जैमिनिमतानि सन्ति, ततोऽप्यवगम्यते यज् जैमिनि- रपि योगविद्याभ्यासी आसीदिति, यतो हि तेन औपनिषदमात्मज्ञानं व्याख्या- तम्, तच्चात्मज्ञानं योगाभ्यासमन्तरा न संभवेदिति ( द्र० बृह० ४/४/२३ ) कश्चिद् महायोगीश्वरो जैमिनिर्विष्णुपुराणे स्मृतः (४|४|४८ ), स तु जैमिनिः सामग इति ग्रन्थान्तरदर्शनात् प्रतीयते । सामविषये तु प्रोच्यते- 'सामानि यो वेद स वेद ब्रह्म' ( वायु० ७६/६५, ब्रह्माण्ड० २।१५।६८), 'सामानि यो वेद स वेद तत्त्वम्' (बृहदेवता ८ | १३० ), अतः सामविद् जैमिनियोंगा- भ्यासीत्यत्र न कश्चित् संशय इति । व्यासशिष्यः सामविज जैमिनिरेव पूर्व- मीमांसाप्रणेतेति पूर्वमीमांसाशास्त्रं न योगविरोधीति स्वीकर्तव्यमेव। एवं सत्यपि न कर्मकाण्डे योगविद्याप्रसङ्गावसर इति कृत्वा न योगसंबद्धा चर्चा कृता । व्याकरणेऽपि योगविद्याऽस्त्येव । यथाह हरिः- “तस्माद्यः शब्द संस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद् ब्रह्मामृतमश्नुते ॥” इति । ( वाक्यप० १ | १३२ ) । अपि च - “इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ॥” इति । (तत्रैव १।१७ ) । दृश्यते । यथा- अन्यत्रापि शब्दविद्यायां योगशास्त्रानुगता चिन्ता 'ज्योतिर्वज्ज्ञानानि भवन्तीति । ( महाभाष्यम् १।४।२६ ) शब्दब्रह्मोपासका