पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रम् पी. ३ सू. ५२ ] प्रियमिति। एवमभिधीयमानः संङ्गदोषान्भावयेद्–घोरेषु संसाराङ्गारेषुः पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथविदासादितः क्लेशतिमिरविनाशी योगप्रदीपः । तस्य चैते तृष्णायोनयो विषयवायवः प्रति- पक्षाः। स खल्बहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्यामिति । स्वस्ति वः स्वप्नोप- मेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत् । सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति । स्मयादयं सुस्थितं मन्यतया मृत्युना केशेषु गृहीतमिवात्मानं न भाव- यिष्यति । तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्य प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति। ततः पुनरनिष्टप्रसङ्गः । एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी भविष्यति । भावनीयञ्चार्थोऽभिमुखीभविष्यति ।। ५१ ।। क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ यथापकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमाकर्पपर्यन्तः कालः क्षणः । यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमुपसंपद्येत स कालः क्षणः, तत्प्रवाहाविच्छेदस्तु क्रमः | क्षणतत्क भयोर्नास्ति वस्तुसमाहार मन्त्रणीयः; भूतेन्द्रियवशित्वेनैव तत्प्राप्तेः । चतुर्थेऽपि परवैराग्यसंपत्तेरासङ्गशङ्का दूरोत्सारितैवेति पारिशेष्याद् द्वितीय एव ऋतम्भरप्रशस्त दुप निमन्त्रणविषय इति । वैहायसमाकाशगामि । अक्षयमविनाशि | अजरं सदाभिनवम्।-- स्मयकरणे दोषमाह - स्मयादयमिति । स्मयात्सुस्थितंमन्यो नानित्यतां भावयिष्यति । न तस्यां प्रणिधास्यतीत्यर्थः । सुगममन्यत् ॥ ५१ ॥ उक्ता क्वचित्कचित्संयमात्सर्वज्ञता। सा च न निःशेषज्ञता । अपि तु प्रकारमा- त्रविवक्षया, यथा सर्वैर्व्यञ्जनैर्भुक्तमिति । अत्र हि यावन्तो व्यञ्जनप्रकारास्तैर्भु.. कमिति गम्यते न तु निःशेषैरिति । अस्ति च निःशेषवचनः सर्वशब्दो यथोपनी- तमन्नं सर्वमशितं प्राशकेनेति । तत्र हि निःशेषमिति गम्यते । तदिह निःशेष- शतालक्षणस्य विवेकजज्ञानस्थ साधनं संयममाह-क्षणतत्क्रमयोः संयमाद्विवे- कजं ज्ञानम् । क्षणपदार्थ निदर्शनपूर्वकमाह – यथेति । लोष्टस्य हि प्रविभज्य- मानस्य यस्मिन्नवयवेऽल्पत्वतारतम्यं व्यवतिष्ठते सोपकर्षपर्यन्तः परमाणुर्यथा तथापकर्षपर्यन्तः कालः क्षणः । पूर्वापरभागविकलकालकलेति यावत् । तमेव क्षणं प्रकारान्तरेण दर्शयति-यावता वेति । परमाणुमात्रं देशमतिक्रामेदित्यर्थः। क्रमपदार्थमाह—तत्प्रवाहेति । तत्पदेन क्षणः परामृश्यते । न चेदृशः क्रमो वास्तवः। किं तु काल्पनिकः । तस्य समाहाररूपस्यायुगपदुपस्थितेषु वास्तवत्वेन विचारासहत्वादित्याह-क्षणतत्कमयोरिति । अयुगपद्धः विक्षणधर्मत्वात्मस्य