पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतकृती कायुतप्पास माध्यसमेतम् [ पा. ३.५१ कैवश्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ।। ५० ।। स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥ चत्वारः खल्त्रमी योगिनः प्रथमकल्पिको मधुभूमिकः प्रज्ञाज्योति- रतिक्रान्तभावनीयश्चेति । तयाभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः । ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीये कृतरक्षाबन्धः कृतकर्तव्यसाधनादिमान् । चतुर्थो यस्त्वतिक्रान्तभावनीयः, तस्य चित्तप्रतिसर्ग एकोऽर्थः, सप्तविधास्य प्रान्तभूमिप्रज्ञा । १४९ तत्र मधुमतों भूमिं साक्षात्कुतो ब्राह्मणस्य स्थानिनो देवाः सत्व- विशुद्धिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते—भो इहास्यतामिह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनमिदं जरामृत्यू बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वजोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां किंभूतमित्याह – सत्त्वस्यायं विवेकप्रत्ययो धर्मः। शेषं तत्र तत्र व्याख्यातत्वात् सुगमम् ॥ ५० ॥ स्थानानि येषां संप्रति कैवल्यसाधने प्रवृत्तस्य योगिनः प्रत्यूहसंभवे तन्निराकरणकारण- मुपदिशति — स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । स्थानिनो महेन्द्रादयः । तैरुपनिमन्त्रणं तस्मिन्सङ्गश्च स्मयश्च न कर्तव्यः; पुनरनिष्टप्रसङ्गात् । तत्र यं देवाः स्थानैरुपमन्त्रयन्ते तं योगिनमेकं निर्धारयितुं यावन्तो योगिनः संभवन्ति तावत एवाह-चत्वार इति । तत्र प्रथमकल्पिकस्य स्वरूपमाह -तत्राभ्यासीति । प्रवृत्तमात्रं न पुनर्वशीकृतं ज्योतिर्ज्ञानं परचित्ता दिविषयं यस्य स तथा द्वितीयमाह - ऋतम्भरप्रज्ञ इति । यत्रेदमुक्तम् – “ऋतम्भरा तत्र प्रशा” (१९४८) इति । स हि भूतेन्द्रि- याणि जिगीषुः । तृतीयमाह - भूतेन्द्रियजयीति । तेन हि स्थूलादिसंयमेन ग्रहणादिसंयमेन च भूतेन्द्रियाणि जितानि । तमेवाह-सर्वेषु भावितेषु । निष्पादितेषु भूतेन्द्रियजयात्परचित्तादिज्ञानादिषु कृतरक्षाबन्धो यतस्तेभ्यो न च्यवते भावनीयेषु निष्पादनीयेषु विशोकादिषु परवैराग्यपर्यन्तेषु कर्तव्यसाधन- वान्। पुरुषप्रयत्नस्य साधनविषयस्यैव साध्वनिष्पादकत्वात् । चतुर्थमाह-चतुर्थ इति । तस्य हि भगवतो जीवन्मुक्तस्य चरमदेहस्य चित्तप्रतिसर्ग एकोऽर्थः । तदेतेषु योगिषूपनिमन्त्रण विषयं योगिनमवधारयति — तत्र मधुमतीमिति । प्रथमकल्पिके तावन्महेन्द्रादीनां तत्प्रातिशव नास्ति । तृतीयोऽपि तैर्नोपनि