पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ वाचस्पपिकृतटीकायुतण्यासभाष्यसमेतम् [ पा. ३ सू. ४४ शब्दादयो विशेषाः । तथा चोक्तम्- एकजातिसमन्वितानामेषां धर्ममात्र- व्यावृत्तिरिति । सामान्यविशेषसमुदायोऽत्र द्रव्यम् । द्विष्ठो हि समूहः । प्रत्यस्त- मितभेदावयवानुगतः-शरीरं वृक्षो यूथं वनमिति । शब्देनोपात्तभेदावयवानु- गतः समूहः-

- उभये देवमनुष्याः, समूहस्य देवा एको भागो मनुष्या द्वितीयो

सर्वत्रैव तेजसि समवेतोष्णतेति । सर्वं चैतद्धर्मधर्मिणोरभेदविवक्षयाभिधानम् वायुः प्रणामी नशीलः । तदाह- चलनेन तृणादीनां शरीरस्थाटनेन च । सर्वगं वायुसामान्यं नामित्वमनुमीयते ॥ सर्वतोगतिराकाशः, सर्वत्र शब्दपलब्धदर्शनात् । श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिरित्युपपादित मधस्तात् (३।४१ टीका) । एतत्स्व- रूपशब्देनोक्तम् । अस्यैव मूर्त्यादिसामान्यस्य शब्दादयः षड्जादय उष्णत्वा- दयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयो मूर्त्यादीनां सामान्यानां भेदाः । सामान्यान्यपि मूर्त्यादीनि जम्बीरपनसामलकफलादीनि रसादिभेदात्परस्परं व्यावर्तन्ते । तेनैतेषामेते रसादयो विशेषाः। तथा चोक्तम्-एकजातिसमन्त्रितानां प्रत्येकं पृथिव्यादीनामे कैकया जात्या मूर्तिस्नेहादिना समन्वितानामेषा षड्जादि- धर्ममात्रव्यावृत्तिरिति । तदेवं सामान्यं मूर्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः । ये चाहुः सामान्यविशेषाश्रयो द्रव्यमिति तान्प्रत्याह-सामान्यविशेषस- मुदायोऽत्र दर्शने द्रव्यम् | येऽपि तदाश्रयो द्रव्यमा स्थिषत तैरपि तत्समुदायोऽनुभूय मानो नापह्नोतव्यः । न च तदपह्नवे तयोराधारो द्रव्यमिति भवति । तस्मात्तदे- वास्तु द्रव्यम् । न तु ताभ्यां तत्समुदायाच्च तदाघारमपरं द्रव्यमुपलभामहे । ग्रावभ्यो ग्रावसमुदायादिव च तदाधारमपरं पृथग्विधं शिखरम्। समूहो द्रव्यमित्युक्तम् । तत्र समूहमात्रं द्रव्यमिति भ्रमापनुत्तये समूहविशेषो द्रव्यमिति निर्धारयितुं समूहप्रका- रानाइ – द्विष्ठो हीति । यस्मादेवं तस्मान्न समूहमात्रं द्रव्यमित्यर्थः । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । एकं प्रकारमाह - प्रत्यस्तमितेति । प्रत्यस्तमितो मेदो येषामवयवानां ते तथोक्ताः । प्रत्यस्तमितभेदा अवयत्रा यस्य स तथोक्तः । एतदुक्तं भवति — शरीरवृक्षयूथवनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभे- दस्तद्वाचक शब्दप्रयोगात्समूह एकोऽवगम्यत इति । युतायुतसिद्धावयवत्वेन चेतनाचेतनत्वेन चोदाहरणचतुष्टयम् | युतायुतसिद्धावयवत्वं चाग्रे वक्ष्यते । द्वितीयं प्रकारमाह—शब्देनोपात्तभेदावयवानुगतः समूह उभये देव- मनुष्या इति । देवमनुष्य इति हि शब्देनोमयशन्दवाच्यस्य समूहस्य भागौ