पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ पा. ३ सू. ४४] पातम्जलयोगसूत्रम् शरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसस्त्रस्य यदावरणं क्लेशकर्मविपाकत्रय – रजस्तमोमूलं तस्य च क्षयो भवति ॥४३॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्वसंयमाद्भुतजयः ॥ ४४ ॥ तत्र पार्थित्राद्याः शब्दादयो विशेषाः सहकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः । एतद्भूतानां प्रथमं रूपम् । द्वितीयं रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते । अस्य सामान्यस्य मूलतया तदात्मकं सद् बुद्धिसत्त्वमावृणोति । तत्क्षयाच्च निरावरणं योगिचत्तं यथेच्छं विहरति विजानाति चेति ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि । तेषु संयमात्त- जयः । स्थूलमाह—तत्रेति । पार्थिवाः पाथसीयास्तैजसा वायवीया आका- शीयाः शब्दस्पर्शरूपरसगन्धा यथासंभवं विशेषाः षड्जगान्धारादयः शीतोष्णा- दयो नीलपीतादयः कषायमधुरादयः सुरम्यादयः । एते हि नामरूपप्रयोजनैः परस्परतो भिद्यन्त इति विशेषाः । एतेषां पञ्च पृथिव्याम् । गन्धवजं चत्वारोऽप्सु । गन्धरसवर्जं त्रयस्तेजसि । गन्धरसरूपवर्ज द्वौ नभस्वति । शब्द एवाक शे। त एत ईदृशा विशेषाः सहाकारदिभिर्धः स्थूलशब्देन परिभाषिताः शास्त्रे । तत्र पार्थिवास्तावद्धर्माः- आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा काश्यं काठिन्यं सर्वभोग्यता ॥ अपां धर्माः– स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधानं चादका गुणाः ॥ तैजसा धर्माः– उर्ध्व भाक्याचकं दग्धू पावकं लघु भास्वरम् । प्रध्वंस्थोजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् || वायवीया धर्माः– तिर्यग्यानं पवित्रस्त्रमाक्षेगे नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ॥ आकाशीया धर्माः– सर्वतोगतिरव्यूहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः ॥ इति । त एत आकारप्रभृतयो धर्मास्तै सहेति। आकारश्च सामान्यविशेषो गोत्वादिः । द्वितीयं रूपमाह - द्वितीयं रूपं स्वसामान्यम् । मूर्तिः सांसिद्धिकं काठि- न्यम् । स्नेहो जलं मजापुष्टिबलाधानहेतुः । वह्निरुष्णतौदर्ये सौर्ये भौमे च