पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. ३ सु. २५ ] पातञ्जलयोगसूत्रम् १३४ तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकायाः- अच्युताः शुद्ध- निवासाः सत्याभाः संज्ञासंज्ञिनश्चेति । ते चाकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरि स्थिताः प्रधानवशिनो यावत्सर्गायुपः । तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्र व्यानसुखाः संज्ञासज्ञिनञ्चास्मितामात्रध्यानसुखाः । तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति । त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः । विदेहप्रकृतिलयास्तु मोक्षपदे वतन्त इति न लोकमध्ये न्यस्ता इति । एत- द्योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा ततोऽन्यत्रापि । एवं ताव- दभ्यसेद्यावदिदं सर्वं दृष्टमिति ॥ २६ ॥ उर्ध्वमित्यूर्ध्वं सत्यलोकेऽप्रतिहतज्ञाना अवीचेस्तु प्रभृत्या तपोलोकं सूक्ष्मव्यव- हितादि सर्व विजानन्तीत्यर्थः । तृतीयं ब्रह्मणः सत्यलोकमाइतृतीय इति । अकृतो भवनस्य गृहस्थ म्यासो यैस्ते तथोक्ताः । आधाराभावादेव स्वप्रतिष्ठाः । स्त्रेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्काः । प्रधानवशिनः । तदिच्छातः सत्त्वरजस्तमांसि प्रवर्तन्ते यावत्सर्गायुषः । तथा च श्रूयते- ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ ( कूर्मपु० १११२१२७३; तुल० वायु १०१ / ८५ ) इति । तदेवं चतुर्णो देवनिकायानां साधारणधर्मानुक्त्वा नामविशेषग्रहणेन धर्म- . विशेषानाह—तत्रेति । अच्युता नाम देवाः स्थूलविषयध्यानसुखाः । तेन ते तृप्यन्ति | शुद्धनिवासा नाम देवाः सूक्ष्म विषयध्यानसुखाः । तेन ते तृप्यन्ति । सत्याभा नाम देवा इन्द्रिय विषयध्यानसुखाः । तेन ते तृप्यन्ति । संशासशिनो नाम देवा अस्मितामात्रध्यानसुखाः । तेन ते तृप्यन्ति । त एते सर्वे संप्रज्ञात- समाधिमुपासते । अथासंप्रज्ञातसमाधिनिष्ठा विदेहप्रकृतिलयाः कस्मान्न लोक- मध्ये न्यस्यन्त इत्यत आह - विदेहप्रकृतिलयास्त्विति । बुद्धिवृत्तिमन्तो हि दर्शितविषया लोकयात्रां वहन्तो लोकेषु वर्तन्ते । न चैवं विदेहप्रकृतिलयाः सत्यपि साधिकारत्व इत्यर्थः । तदेतदासत्यलोकमा चावीचेर्योगिना साक्षात्कर- णीयं सूर्यद्वारे सुषुम्नायां नाडयाम् । न चैतावतापि तत्साक्षात्कारो भवतीत्यत आह- एवं तावदन्यत्रापि सुषुम्नाया अन्यत्रापि योगोपाध्यायोपदिष्टेषु यावदिदं सर्वं जगद् दृष्टमिति । बुद्धिसत्त्वं हि स्वभावत एव विश्वप्रकाशनसमर्थं समोमाइतं यत्रैव रजसोद्धाटयते तदेव प्रकाशयति । सूर्यद्वारसंयमोद्घाटितं तु