पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यास भाष्यसमेतम् [ पा. ३ सू. २६ ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि संनिविष्टा दिवि विपरिवर्तन्ते । माहेन्द्रनिवासिनः षड् देवनिकायाः– त्रिदशा अग्निष्वात्ता याम्या- स्तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति । ते सर्वे संकल्प- सिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औप- पादिकदेहा उत्तमानुकूलाभिरप्सरोभिः कृतपरिवाराः । महति लोके प्राजापत्ये पञ्चविधो देवनिकायः- कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति । एते महाभूतवशिनो ध्यानाहाराः कल्प- सहस्रायुवः । प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्म- कायिका ब्रह्ममहाकायिका अजरामरा इति । एते भूतेन्द्रियवशिनो द्विगुण- द्विगुणोत्तरायुषः । — द्वितीये तपसि लोके त्रिविधो देवनिकायः– आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहाराः ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञान- विषयाः । तदेवं भूर्लोकं सप्रकारमुक्त्वा सप्रकारमेवान्तरिक्षलोकमाह-ग्रहेति । वि क्षेपो व्यापारः । - स्वर्लोकमा दर्शयति–माहेन्द्रनिवासिन इति । देवनिकाया देवजातयः । घण्णामपि देवनिकायानां रूपोत्कर्षमाह - सर्वे संकल्पसिद्धा इति । संकल्प- मात्रादेवैषां विषया उपनमन्ति। वृन्दारकाः पूज्याः। कामभोगिनो मैथुनप्रियाः । औपपादिकदेहाः पित्रोः संयोगमन्तरेणाकस्मादेव दिव्यं शरीरमेषां धर्मविशेषां तिसंस्कृतेभ्योऽणुभ्यो भूतेभ्यो भवतीति । महर्लोकमाह — महतीति । महाभूतवशिनः । यद्यदेतेभ्यो रोचते तत्तदेव महाभूतानि प्रयच्छन्ति । तदिच्छातश्च महाभूतानि तेन तेन संस्थानेनावति- उन्ते । ध्यानाहारा ध्यानमात्रतृप्ताः पुष्टा भवन्ति । जनलोकमाइ—प्रथम इत्युक्तक्रमेण । भूतेन्द्रियवशिन इति । भूतानि पृथिव्यादीनीन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुमिच्छन्ति तथैव नियुज्यन्ते । उक्तक्रमापेक्षया द्वितीयं ब्रह्मणस्तपोलोकमाह - द्वितीय इति । भूतेन्द्रिय- प्रकृतिवशिन इति । प्रकृतिः पञ्च तन्मात्राणि तद्वशिनः । तदिच्छाती हि तन्मात्राण्येव कायाकारेण परिणमन्त इत्यागमिनः । द्विगुणेति । आभास्वरेभ्यो द्विगुणायुषी महामास्वराः । तेभ्योऽपि द्विगुणायुषः सत्यमहामास्वरा इत्यर्थः ।