पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ पा. ३सू. २० ] पातञ्जलयोगसूत्रम् अत्रेदमाख्यानं श्रूयते – भगवतो जैगीषव्यस्य संस्कार साक्षात्करणा- दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत् । अथ भगवानावट्यस्तनुधरस्तमुवाच - दशसु महासर्गेषु भव्यत्वादनभिभूत- बुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनः- पुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति ? भगवन्तमावट्यं जैगीषव्य उवाच- दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भत्रं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किश्चिद- नुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि । भगवानावट्य उवाच – यदिदमायुष्मतः प्रधान वशित्वमनुत्तमं च सन्तोक्सुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति ? भगवा गीषव्य उवाच -- विषयसुख पेक्षयैवेदमनुत्तमं सन्तोषसुखमुक्तम्, कैत्रल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणः, त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । दुःखस्वरूपस्तृष्णातन्तुः, तृष्णादुःखसंतापापग- मात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तंमिति ।। १८ ।। प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥ प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ।। १९ ।। न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति । परप्रत्ययस्य जात्यादिसाक्षात्कारमाक्षिपतीत्यर्थः । स्वसंस्कारसंयमं परकीयेष्त्रतिदिशति- परत्राप्येवमिति । अत्र श्रद्धोत्पादेहेतुमनुभवत आवट्यस्य जैगीषव्येण संवादमुपन्यस्यति- अत्रेदमाख्यानं श्रयत इति । महाकल्यो महासर्गः । तनुधर इति निर्माणकायसं- पदुक्ता । भव्यः शोभेनो विगलितरजस्तमोमल इत्यर्थः । प्रधानवशित्वमैश्वर्यम् । तेन हि प्रधानं विक्षोभ्य यस्मै यादृशीं कायेन्द्रियसंपदं दित्सति तस्मै तादृशीं दत्ते । स्वकीयानि च कायेन्द्रियसहस्राणि निर्मायान्तरिक्षे दिवि भुवि च यथेच्छं विहरतीति। संतोषो हि तृष्णाक्षयो बुद्धिसत्त्वस्य प्रशान्तता धर्मः ॥१८॥ प्रत्ययस्य परचित्तज्ञानम् । परप्रत्ययस्य चित्तमात्रस्य साक्षात्करणा- दिति ॥ १६ ॥ यथा संस्कारसाक्षात्कारस्तदनुबन्धपूर्वजन्मसाक्षात्कार माक्षिपत्येवं परचि- त्तसाक्षात्कारोऽपि तदालम्बनसाक्षात्कारमाक्षिपेदिति प्राप्त आह-न च तत्सा- लम्बनं तस्याविषयीभूतत्वात् । सानुबन्धसंस्कारविषयोऽसौ संयमः । अयं तु