पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. ३ सू. १८ कस्मात् ? सोऽयमित्यभिसंबन्धादेकाकार एव प्रत्ययः संकेत इति । यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः । स हि स्वाभिरवस्था- भिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः । एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्यथार्थोऽन्यथा प्रत्यय इति विभागः । एवं तत्प्रविभागसंयमाद्योगिनः सर्वभूतरुतज्ञानं संपद्यत इति ।। १७ ।। ६२७ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८ ॥ द्वये खल्बमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा, विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्म- वदपरिदृष्टाश्चित्तधर्माः । तेषु संयमः संस्कारसाक्षातक्रियायै समर्थः । न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणं, तदित्थं संस्कारसाक्षा- त्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव संस्कारसाक्षात्क- रणात्परजातिसंवेदनम् । तयोः शब्दयोरर्थः क्रियात्मा कारकात्मा च । प्रत्ययं विभजते- प्रत्ययश्चेति । चशब्देन तदर्थ इत्येतत्पदमत्रानुकृष्यते । तदत्रान्यपदार्थप्रधानं संबाध्यते । स एव क्रियाकारकात्मार्थो यस्य स तथोक्तः । नन्वमेदेन प्रतीतेः शब्दार्थप्रत्ययानां संकरात्कुतः प्रविभाग इत्याशयवान्पृच्छति–कस्मादिति । उत्तरमाह-सोऽ- यमित्यभिसंबन्धादिति । संकेतोपाधिरेवैकाकारप्रत्ययो न तु तात्त्विक इत्यर्थः । संकेतस्य निमित्तता दर्शिता संकेत इति सप्तम्या । परमार्थमाह—यस्तु श्वेतोऽर्थ इति । अवस्था नवपुराणत्वादयः । सहगतः संकीर्णः । एवं च प्रविभागसंयमाद्योगिनः सर्वेषां भूतानां पशुमृगसरीसृपवयः प्रभृतीनां यानि रुतानि तत्राप्यव्यक्तं पदं तदर्थस्तत्प्रत्ययश्चेति । तदिह मनुष्य- वचनवाच्यप्रत्ययेषु कृतः संयमः समानजातीयतया तेष्वपि कृत एवेति तेषां रुतं तदर्थभेदं तत्प्रत्ययं च योगी जानातीति सिद्धम् ॥ १७ ॥ संस्कार साक्षात्करणत्पूर्वजातिज्ञानम् । ज्ञानजा हि संस्काराः स्मृतर्हे- तवः । अविद्यादिसंस्कारा अविद्यादीनां क्लेशानां हेतवः । विपाको जात्या- युर्भोगरूपः । तस्य हेतवो धर्माधर्मरूपाः । पूर्वेषु भवेष्वभिसंस्कृता निष्पादिताः स्वकारणैर्यथासंस्कृतं व्यञ्जनं कृतमिति गम्यते । परिणामचेष्टानिरोधशक्तिजीव- नान्येव धर्माश्चित्तस्य, तद्वदपरिदृष्टाश्चित्तधर्माः । तेषु श्रुतेष्वनुमितेषु सपरिकरेषु संयमः संस्काराणां द्वयेषां साक्षात्क्रियायै समर्थः । अस्तु तत्र संयमात्तत्साक्षा- त्कारः, पूर्वजातिसाक्षात्कारस्तु कुत इत्यत आह–नच देशेति । निमित्तं पूर्वशरीरमिन्द्रियादि च । सानुबन्धसंस्कारसाक्षात्कार एव नान्तरीयकतया