पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा.सू. १५] पातञ्जलयोगसूत्रम् देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्ति- रिति । य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं निरन्त्रयं तस्य भोगाभावः । कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत । तत्स्मृत्यभावश्च, नान्यदृष्टस्य स्मरणमन्यस्यास्तीति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मान्नेदं धर्ममात्रं निरन्वयमिति ।। १४ ।। ११८ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामा- न्यत्वे हेतुर्भवतीति । तद्यथा-- --चूर्णमृत्पिण्डमृद्धट मृत्कपालमृत्कणमृदिति च ननु सर्व चेत्सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा संनिधानात्स- मानकालीना भावानां व्यक्तिः प्रसज्येत । न खलु सन्निहिताविकलकारणं कार्य विलम्बितुमर्हतीत्यत आह - देशकालेति । यद्यपि कारणं सर्व सर्वात्मकं तथापि यो यस्य कार्यस्य देशो यथा कुकुमस्थ काश्मीरः तेषां सत्त्वेऽपि पाञ्चालादिषु न समुदाचार इति न कुङ्कुमस्य पाञ्चालादिष्वभिव्यक्तिः । एवं निदाघे न प्रावृष: समुदाचार इति न तदा शालीनाम् । एवं न मृगी मनुष्यं प्रसूते न तस्यां मनुष्याकारसमुदाचार इति । एवं नापुण्यवान्सुखरूपं भुङ्क्ते न तस्मिन्पुण्यनि- मित्तस्य समुदाचार इति । तस्माद्देशकालाकारनिमित्तानामपबन्धादपग मान्न समानकालमात्मनां भावानामभिव्यक्तिरिति । तदेवं धर्मान्विभज्य तेषु धर्मिणोनुगमं दर्शयति — य एतेष्विति । सामान्यं धर्मिरूपम् । विशेषो धर्मः। तदात्मोभयात्मक इत्यर्थः । तदेवमनुभवसिद्धमनुगतं धर्मिणं दर्शयित्वा तमनि- छतो वैनाशिकस्य क्षणिकं विज्ञानमात्रं चित्तमिच्छतोऽनिष्टप्रसङ्गमुक्तं स्मारयति- यस्य त्विति । वस्तुप्रत्यभिज्ञानाञ्चेति । न हि देवदत्तेन दृष्टं यज्ञदत्तः प्रत्यभि- जानाति । तस्याद्य एवानुभविता स एव प्रत्यभिज्ञातेति ॥ १४ ॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः । किमेकस्य धर्मिण एक एव धर्मलक्ष- णावस्थालक्षणः परिणाम उत बहवो धर्मलक्षणावस्थालक्षणाः परिणामाः १ तत्र कि प्राप्तम् १ एकत्वाद्धमिण एक एव परिणामः । न ह्येकरूपात्कारणात्कार्यभेदो भवितुमर्हति तस्याकस्मिकत्व प्रसङ्गादित्येवं प्राप्त उच्यते- क्रमान्यत्वात्परिणामा- न्यत्वम् । एकस्या मृदश्चूर्णपिण्डघटकपालकणाकारा परिणतिपरम्परा क्रमवती लौकिकपरीक्षकैरध्यक्षं समीक्ष्यते । अन्यच्चेदं चूर्णापिण्डयोरानन्तर्य मन्यच्च पिण्ड- घष्टयोरन्यश्च घटकपालयोरन्यच्च कपालकणयोः । एकत्र परस्यान्यत्र पूर्वत्वात् ।