पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतम्यासभाष्यसमेतम् [पा. ३सू. १४ तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश्चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः । सव्यापारा उदिताः, ते चानागतस्य लक्षणस्य समनन्तराः । वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः ? पूर्वपश्चिमताया अभावात् । यथानागतवर्तमानयोः पूर्वपश्चिमता, नैवमतीतस्य । तस्मान्नातीतस्यास्ति समनन्तरः । तद्नागत एव समनन्तरो भवति वर्तमानस्येति । अथाव्यपदेश्याः के ? सर्वं सर्वात्मकमिति । यत्रोक्तम्- जलभूभ्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन सर्व सर्वात्मकमिति । , तीत्याह—यदा त्विति । कोऽसौ केन भेदसाघनेन भिद्येतेति । तदेवं धर्माणां भेदसाधनमभिधाय तं भेदं विभजते --तत्र ये खल्विति । उदिता इति वर्तमाना इत्यर्थः । अध्वनां पौर्वापर्यं निगमयति-ते चेति । चोदयति – किमर्थमिति । किंनिमित्तमतीतस्यानन्तरा न भवन्ति वर्तमानाः । हेतुमाह सिद्धान्ती -- पूर्वपश्चिमताया अभावात् । विषयेण विषयिणीमनु- पलब्धि सूचयति । अनुपलम्भमेवोपलम्भवैधर्म्येण दर्शयति- यथानागत वर्तमा- नयोरिति । उपसंहरति-तदिति । तत्तस्मादनागत एव समनन्तरः पूर्वत्वेन भवति वर्तमानस्य नातीतः । अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः । तस्मादध्वनां यविष्ठोऽतीत इति सिद्धम् । स्यादेतत्-अनुभूयमानानुभूततयोदितातीतौ शक्यावुन्नेतुम् । अव्यपदेश्यास्तु पुनर्धर्मा अव्यपदेश्यतयैव शक्या नोन्नेतुमित्याशयवान्पृच्छति – अथाव्यपदेश्याः के केषु समीक्षामहे । अत्रोत्तरमाइ–सर्व सर्वात्मकमिति । यत्रोक्तमिति । तदेवोपपादयति–जलभूम्योरिति । जलस्य हि रसरूपस्पर्शशब्दवतो भूमेश्च गन्धरसरूपस्पर्शशब्दवत्याः पारिणामिकं वनसतिलतागुल्मादिषु मूलफलप्रसव- पद्मवादिगतरसादिवैश्वरूप्यंदृष्टम् । सोऽयमनेवमात्मिकाया भूमेरनीदृशस्थ वा जल- स्य न परिणामो भवितुमर्हति । उपपादितं हि नासदुत्पद्यत इति । (३।१३ व्याख्या) तथा स्थावराणां पारिणामिकं जङ्गमेषु मनुष्यपशुमृगादिषु रसादिवैचित्र्यं दृष्टम् । उपभुञ्जाना हि ते फलादीनि रूपादिमे दसम्पदमासादयन्ति । एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम् । रुधिरावसेकात्किल, दाडिमीफलानि तालफल- मात्राणि भवन्ति । उपसंहरति - एवमिति । एवं सर्व जलभूम्यादि सर्वरसा- द्यात्मकम् । तत्र हेतुमाह-जात्यनुच्छेदेन जलत्वभूमित्वादिजातेः सर्वत्र प्रत्यभिज्ञायमानत्वेनानुच्छेदात् । -