पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २ सू. १६ ] पातञ्जलयोगसूत्रम् मोक्षोपाय इति । तत्र दुःखबहुल: संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः । संयोगस्यात्यन्तिकी निवृत्तिनम् । हानोपायः सम्यग्दर्शनम् । तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हति । हाने तस्यो- च्छेदवादप्रसङ्गः, उपादाने च हेतुवादः । उभयप्रत्याख्याने च शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ।। १५ ।। हेयं दुःखमनागतम् ॥ १६ ॥ दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते । वर्तमानं च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते । तस्माद्यदेवानागतं दुःखं तदेवाक्षिपत्रकल्पं योगिनं क्लिश्नाति, नेतरं प्रतिपत्तारम् । तदेव हेयता- मापद्यते ।। १६ ।। छम् । ननु दुःखं हेयमुक्त्वा संसारं हेयमभिदधतः कुतो न विरोध इत्यत आह तत्र दुःखबहुल इति । यत्कृत्वाऽविद्या संसारं करोति तदस्या अवान्तरव्यापारं संसारहेतुमाह—प्रधानपुरुषयोरिति । मोक्षस्वरूपमाह–संयोगस्येति । मोक्षोपायमाह — हानोपाय इति । केचित्पश्यन्ति, हातुः स्वरूपोच्छेद एव मोक्षः । यथाहुः- “प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः ।” इति । अन्ये तु सवासनक्लेशसमुच्छेदाद्विशुद्ध विज्ञानोसाद एव मोक्ष इत्याचक्षते । तान्प्रत्याह — तत्रेति । तत्र हानं तावदूषयति- हाने तस्येति । न हि प्रेक्षा- वान्कश्चिदात्मोच्छेदाय यतते । ननु दृश्यन्ते तीव्रगदोन्मूलितसकलसुखा दुःख- मयीमिच मूर्तिमुद्वहन्तः स्त्रोच्छेदाय यतमानाः | सत्यम् । केचिदेव ते । न त्वेवं संसारिणो विविधविचित्रदेवाद्यानन्दभोगभागिनः । तेऽपि च मोक्षमाणा दृश्यन्ते । तस्मादपुरुषार्थप्रसक्तेर्न हातुः स्वरूपोच्छेदो मोक्षोऽभ्युपेयः । अस्तु तर्हि हातुः स्वरूपमुपादेयमित्यत आह-उपादाने च हेतुवाद इति । उपादाने हि कार्यत्वे- नानित्यत्वे सति मोक्षत्वादेव च्यवेत । अमृतत्वं हि मोक्षः । नापि विशुद्धो विज्ञानसंतानो भवत्यमृतः। संतानिभ्यो व्यतिरिक्तस्य संतानस्य वस्तुसतोऽभवात् । संतांनिनां चानित्यत्वात् । तस्मात्तथा यतितव्यं यथा शाश्वतवादी भवति । तथा च पुरुषार्थतापवर्गस्येत्याह- उभय प्रत्याख्यान इति । तस्मात्स्वरूपाव- स्थानमेवात्मनो मोक्ष इत्येतदेव सम्यग्दर्शनम् ॥ १५ ॥ तदेच्छात्रं चतुर्व्यूहमित्यभिधीयते - हेयं दुःखमनागतम् । अना- गतमित्यतीतवर्तमाने व्यवच्छिन्ने । तत्रोपपत्तिमाह – दुःखमतीतमिति । ननु वर्तमानमुपभुज्यमानं न भोगेनातिवाहितमिति कस्मान हेयमित्यत आह बर्तमानं चेति । सुगमम् ॥ १६ ॥