पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायु तव्यासभाष्यसमेतम् [ पा. २ सू. १५ गुणवृत्तिविरोधाञ्च दुःखमेव सर्व विवेकिनः । प्रख्या प्रवृत्तिस्थितिरूपा बुद्धिगणाः परस्परानुग्रह तन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुण- मेवारभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाञ्च परस्परेण विरुध्यन्ते सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति, गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद् दुःखमेव सर्व विवेकिन इति । तदस्य महतो दुःखसमुदायस्य प्रभववोजमविद्या । तस्याश्च सम्य- ग्दर्शनमभाबहेतुः। यथा चिकित्साशास्त्रं चतुर्व्यूहम्-रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिंदमपि शास्त्रं चतुर्व्यूहमेव । तद्यथा-संसारः संसारहेतु मोक्षो - तदेवमौपाधिकं विषयसुखस्य परिणामतः संस्कारस्तापसंयोगाच्च दुःखत्वम- भिधाय स्वाभाविकमादर्शयति - गुणवृत्तिविरोधाञ्चेति । व्याचष्टे—प्रख्येति । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः सत्त्वरजस्तमांसि परस्परानु- ग्रहतन्त्राः शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं विषादात्मकमेव प्रत्ययं सुखोप- भोगरूपमपि त्रिगुणमारभन्ते । न च सोऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्याह –चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं इति । नन्वेकः प्रत्ययः कथं परस्परविरुद्धशान्तघोरमूढत्वान्येकदा प्रतिपद्यत इत्यत आह रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्त इति । रूपाण्यष्टौ, भावा धर्मादयो वृत्तयः सुखाद्याः । तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः सुखादिभिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते । सामान्यानि त्वसमुदाचरद्रूपाण्यतिशयैः समुदाचरद्भिः सहा विरोधात्प्र- वर्तन्त इति । ननु गृह्णीम एतत् तथापि विषयसुखस्य कुतः स्वाभाविकी दुःखते- त्यत आह – एवमेत इति । उपादानाभेदादुपादानात्मकत्वाच्चोपादेवस्याप्य- भेद इत्यर्थः । तत्किमिदानीमात्यन्तिकमेव तादात्म्यम् । तथा च बुद्धिव्यपदेश- मेदौ न कल्पेते इत्यत आह - गुणप्रधानेति । सामान्यात्मना गुणभावोऽ तिशयात्मना च प्राधान्यम् । तस्मादुपाधितः स्वभावतश्च दुःखमेव सर्वं विवेकिन इति । दुःखं च हेयं प्रज्ञावताम्। न च तन्निदानहानमन्तरेण तद्धेयं भवितुमर्हति । न चापरिज्ञातं निदानं शक्यं हातुमिति मूलनिदानमस्य दर्शयति-तदस्येति । दुःखसमुदायस्य प्रभव उत्पत्तिर्यतस्तद्वीजमित्यर्थः । तदुच्छेदहेतुं दर्शयति- तस्याश्चेति । इदानीमस्य शास्त्रस्य सर्वानुग्रहार्थं प्रवृत्तस्य तद्विधेनैव शास्त्रेण सादृश्यं दर्शयति — यथेति । चत्वारो व्यूहाः संक्षिप्तावयवरचना यस्य तत्तथो-