पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २ सू. ५ ] पातञ्जलयोगसूत्रम् भवति चैत्रमशुचौ शुचिविपर्यासप्रत्यय इति । एतेनापुण्ये पुण्यप्रत्यय- स्तथैवानयें चार्थप्रत्ययो व्याख्यातः । तथा दुःखे सुखख्यातिं वक्ष्यति--परिणाम तापसंस्कारदुःखैर्गुणवृत्ति- विरोधाश्च दुःखमेव सर्व विवेकिनः (२११५) इति । तत्र सुखख्यातिरविद्या । तथानात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे, पुरुगेपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति । तथैतदत्रोक्तम्--व्यक्तम- व्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य संपद्मनु नन्दत्यात्मसंपदं मन्वान- स्तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्यमानः स सर्वोऽप्रतिबुद्ध इति । एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति । तस्याश्वामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम् । यथा नामित्रो केन मन्दतमसादृश्येन शशाङ्कलेखादिना संबन्धः । एतेनाशुचौ स्त्रीकाये शुचिख्यातिप्रदर्शनेन । अपुण्ये हिंसादौ संसारमोचकादीनां पुण्यप्रत्ययः । एवमर्जनरक्षणादिदुःखबहुलतयानथें घनादावर्थप्रत्ययो व्याख्यातः । सर्वेषां जुगुप्सितत्वेनाशुचित्वात् । तथा दुःख इति । सुगमम् । तथानात्मनीति । सुगमम् । तथैतदत्रोक्तं पञ्चशिखेन । व्यक्तं चेतनं पुत्रदारपश्वादि । अव्यक्तमचेतनं शय्यासनाशनादि । स सर्वोऽप्रतिबुद्धो मूढः । चत्वारि पदानि स्थानान्यस्या इति चतुष्पदा । नन्वन्यापि दिङमोहालात- चक्रादिविषयानन्तपदाऽविद्या! तत्किमुच्यते चतुष्पदेत्यत आह-मूलमस्येति । सन्तु नामान्या अप्यविद्याः संसारबीजं तु चतुष्पदैवेति । नन्वविद्येति नञ्समासः पूर्वपदार्थप्रधानो वा स्याद्यथाऽमक्षिकमिति। उत्तरप- दार्थप्रधानो वा यथाऽराजपुरुष इति । अन्यपदार्थप्रधानो वा यथाऽमक्षिको देश इति । तत्र पूर्वपदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधो गम्येत। न चास्याः क्लेशादिकारणत्वम्, उत्तरपदार्थप्रधानत्वे विद्यैव कस्यचिदभावेन विशिष्टा गम्येत । सा च क्लेशादिपरिपन्थिनी न तु तद्बीजम् । न हि प्रधानोपधाती प्रधा- नगुणो युक्तः । तदनुपघाताय गुणे त्वन्याय्यकल्पना । तस्माद्विद्यास्वरूपानुपघा- ताय नञोऽन्यथाकरणमध्याहारो वा निषेध्यस्येति । अन्यपदार्थप्रधानत्वे त्ववि- द्यमानविद्या बुद्धिर्वक्तव्या । न चासौ विद्याया अभावमात्रेण क्लेशादिबीजम् । विवेकख्यातिपूर्वकनिरोधसंपन्नाया अपि तथात्वप्रसङ्गात् । तस्मात्सर्वथैवाविद्याया न क्लेशादिमूलतेत्यत आह - तस्याश्चेति । वस्तुनो भावो वस्तुसतत्त्वं वस्तुत्व- मिति यावत् । तदनेन न प्रसज्यप्रतिषेधः, नापि विद्यैवाविद्या । न तदभाववि- शिष्ठा बुद्धिः । अपि तु विद्याविरुद्धं विपर्ययज्ञानमविद्येत्युक्तम् । लोकाघीनावधारणो