पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Pub600125 कासप्रज्ञात पा. १ सू. ५१ ] पातञ्जलयोगसूत्रम् मेयम् । व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्थां प्रकृताववस्थितायां प्रविलीयते, तस्मात्ते संस्काराश्चित्तस्याधिकार- विरोधिनो न स्थितिहेतवो, यस्मादवसिताधिकार सह कैवल्यभागीयैः संस्कारैचित्तं विनिवर्तते, तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ।। ५ ।। इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्वयासभाष्ये प्रथमः समाधिपादः ॥ १ ॥ निरोधप्रकर्षो मुहूर्तार्धयामादिव्यापितयानुभूयते योगिना । न च परवैराग्यक्षणाः क्रमनियततया परस्परमसंभवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्तु- मीशत इति तत्तद्वैराग्यक्षणप्रचयजन्यः स्थायी संस्कारप्रचय एषितव्य इति भावः । ननूच्छिद्यन्तां प्रज्ञासंस्काराः । निरोधसंस्कारास्तु कुतः समुच्यन्ते । अनुच्छेदे वा साधिकारत्वमेवेत्यत आह–व्युत्थानेति । व्युत्थानं च तस्य निरोधसमाधिश्च संप्रज्ञातस्तत्प्रभवाः संस्काराः कैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः । व्युत्थानप्रशासंस्काराश्चित्ते प्रलीना इति भवति चित्तं व्यु- त्थानप्रज्ञासंस्कारवत् । निरोधसंस्कारस्तु प्रत्युदित एवास्ते चित्ते । निरोधसं- स्कारे सत्यपि चित्तमनधिकारवत् । पुरुषार्थंजनकं हि चित्तं साधिकारं शब्दा- द्युपभोगविवेकख्याती च तथा पुरुषार्थों । संस्कारशेषतायां तु न बुद्धेः प्रति- संवेदी पुरुप इति नासौ पुरुषार्थः । विदेहप्रकृतिलयानां न निरोधभागितया साधिकारं चित्तम् अपि तु क्लेशवासिततयेत्याशयवानाह– यस्मादिति । , शेषं सुगमम् ॥५१॥ योगस्योद्देशनिर्देशौ तदर्थं वृत्तिलक्षणम् । योगोपायाः प्रभेदाश्च पादेऽस्मिन्नुपवर्णिताः ॥ १ ॥ इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्यायां तत्त्ववैशारद्यां प्रथमः समाधिपादः ॥ १ ॥