पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ निरि प्रज्ञा वाचस्पपिकृतटी कायुतव्यासभाष्यसमेतम् [पा. १ सू. ५१ किं चास्य भवति- तस्यापि निरोधे सर्वनिरोधान्निबजः समाधिः ॥ ५१ ॥ सन केवलं समाधिप्रज्ञाविरोधी, प्रज्ञाकृतानां संस्काराणामपि प्रति- बन्धी भवति । कस्मात् ? निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति । निरोधस्थितिकालक्रमानुभवेन - निरोधचित्तकृतसंस्कारास्तित्वमनु- चेतसोऽवसितप्रायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम् । तस्मा- त्समाधिसंस्काराश्चित्तस्य न भोगाधिकारहेतवः प्रत्युत तत्परिपन्थिन इति । स्वकार्याद्भोगलक्षणादवसादयन्ति, असमर्थ कुर्वन्तीत्यर्थः । कस्मात्ख्यातिपर्य- वसानं हि चित्तचेष्टितम् । तावद्धि भोगाय चित्तं चेष्टते न यावद्विवेकख्यातिमनु- भवति । संजात विवेकख्यातिनस्तु क्लेशनिवृत्तौ न भोगाधिकार इत्यर्थः ॥५०॥ तदत्र भोगाधिकारप्रशान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् । पृच्छति- किं चेति । किं चास्य भवति प्रज्ञासंस्कारवच्चित्तं प्रज्ञाप्रवाहजनकतया तथैव साधिकारमित्यधिकारापनुत्तयेऽन्यदपि किंचिदपेक्षणीय मस्तीत्यर्थः । सूत्रे- णोत्तरमाह–तस्यापि निरोघे सर्वनिरोधान्निबजः समाधिः । परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन संस्कारोपजननद्वारा तस्यापि प्रज्ञाकृतस्य सं- स्कारस्य निरोधो, न केवलं प्रज्ञाया इत्यपिशब्दार्थः । सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात्कारणाभावेन कार्यानुत्पादात्सोऽयं निर्बीजः समा- धिः । व्याचष्टे—स निर्बीजः समाधिः समाधिप्रज्ञाविरोधिनः परस्माद्वै- राग्यादुपजायमानः स्वकारणद्वारेण न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृताना- मप्यसौ संस्काराणां परिपन्थी भवति । ननु वैराग्यजं विज्ञानं सद्विज्ञानं प्रज्ञा- मात्रं बाधताम्। संस्कारं त्वविज्ञानरूपं कथं बाधते । दृष्टा हि जाग्रतोऽपि स्वप्नह टायें स्मृतिरित्याशयवान्पृच्छति- कस्मादिति । उत्तरं - निरोधज इति । निरुध्यतेऽनेन प्रज्ञेति निरोधः परं वैराग्यम् । ततो जातो निरोधजः संस्कारः । संस्कारादेव दीर्घकालनैरन्तर्य सत्कारासेवितपरवैराग्यजन्मनः प्रज्ञासंस्कारबाधो न तु विज्ञानादित्यर्थः । स्यादेतत् – निरोधजसंस्कारसद्भावे किं प्रमाणम् । स हि प्रत्यक्षेण वानुभूयेत, स्मृत्या वा कार्येणानुमीयेत । नच सर्वंवृत्तिनिरोधे प्रत्यक्षमस्ति योगिनः । नापि स्मृतिः । तस्य वृत्तिमात्रनिरोधतया स्मृतिजनकत्वासंभवादित्यत आह-निरो- घेति । निरोधस्थितिश्चित्तस्य निरुद्धावस्थेत्यर्थः । तस्याः कालक्रमो मुहूर्ता- र्धयामयामाहोरात्रादिस्तदनुभवेन । एतदुक्तं भवति–वैराग्याभ्यासप्रकर्षानुरोधी ४ यो० सू०