पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ पा १ सू. ४४] पातञ्जलयोगसूत्रम् एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥ तत्र भूतसूक्ष्मेष्वभिव्यक्तधमकेषु देशकालुनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते । तत्राप्येकबुद्धिनिर्माह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते । या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मा- नुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते । एवं स्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणालम्बनीभूतमेव समाधिप्रज्ञास्त्ररूपमुपरञ्जयति । नुसारेणोद्धर्तव्य इति सर्वं रमणीयम् ॥ ४३ ॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । अभिव्य- क्तो घटादिर्घमों यैस्ते तथोक्ताः। घटादिधर्मोपगृहीता इति यावत् । देश उपर्य- धःपार्श्वादिः । कालो वर्तमानः । निमित्तं पार्थिवस्य परमाणोर्गन्धतन्मात्रप्रधा- नेभ्यः पञ्चतन्मात्रेभ्य उत्पत्तिः । एवमाप्यस्य परमाणोर्गन्धतन्मात्रवर्जितेभ्यो रसतन्मात्रप्रधानेभ्यश्चतुभ्यंः । एवं तैजसस्य गन्धरसतन्मात्ररहितेभ्यो रूपतन्मा- त्रप्रधानभ्यस्त्रिभ्यः । एवं वायवीयस्य गन्धादितन्मात्ररहिताभ्यां स्पर्शप्रधानाभ्यां स्पर्शशब्दतन्मात्राभ्याम् । एवं नामसस्य शब्दतन्मात्रादेवैकस्मात् । तदिदं निमित्तं भूतसूक्ष्माणाम्। एतेषां देशकालनिमित्तानामनुभवः, तेनावच्छिन्नेषु। नानुभूतवि- शेषणा विशेष्ये बुद्धिरुपजायत इत्यर्थः । ननु सवितर्कया सह कि सारूप्यं स- विचाराया इत्यत आह - तत्रापीति । पार्थिवो हि परमाणुः पञ्चतन्मात्रप्रच यात्मैकबुद्धिनिर्ग्राह्यः । एवमाप्यादयोऽपि चतुस्त्रिद्वये कतन्मात्रात्मान एकबुद्धिनि ग्रह्या वेदितव्या । उदितो वर्तमानो धर्मस्तेन विशिष्टम् । एतावता चात्र संके- तस्मृत्यागमानुमानविकल्पानुवेध | सूचितः । न हि प्रत्यक्षेण स्थूले दृश्यमाने पर माणवः प्रकाशन्ते, अपि त्वागमानुमानाभ्याम् । तस्मादुपपन्नमस्याः संकीर्ण- स्वमिति । निर्विचारामाह--या पुनरिति । सर्वथा सर्वेण नीलपीतादिना प्रकारेण । सर्वत इति हि सार्वविभक्ति कस्तसिः । सर्वैर्देशकालनिमित्तानुभवैरित्यर्थः । तद- नेन स्वरूपेण कालानवच्छेदः परमाणूनामिति दर्शितम् । नापि तदारब्धधर्मद्वा- रेणेत्याह – शान्तेति । शान्ता अतीता उदिता वर्तमाना अव्यपदेश्या भविष्यन्तो धर्मास्तैरन वच्छिन्नेषु । नन्वनवच्छिन्ना धर्में: परमाणवः किमसंबद्धा एव तैरित्यत आह - सर्वधर्मानुपातिष्विति । कतमेन संबन्धेन धर्माननुपतन्ति परमाणव इत्यत आह- सर्वधर्मात्मकेषु । कथंचिद्भेदः कथंचिदभेदो धर्माणां परमाणुभ्य इत्य-