पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृनटीकायुत व्यासभाष्यसमेतम् [ पा. १ सूं. ४३ यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्य मवि- कल्पस्थ तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति । तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यद्यदुपलभ्यते तत्त- दवयवित्वेनानातम् । तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समाप त्तेर्निर्वितर्काया विषयो भवति ॥ ४३ ॥ तद्देशत्वाऽतद्देशत्वावृतत्वानावृतत्वरक्तत्वारक्तत्व चलत्वाचलत्वलक्षणो विरुद्धधर्म- संसर्ग इत्यत आह—यस्य पुनरिति । अयमभिप्रायः - अनुभवसिद्धं सत्त्वं हेतुः क्रियते यत्किल पांशुलपादुको हालिकोऽपि प्रतिपद्यतेऽन्यद्वानुभवसिद्धात् । तत्रान्यदसिद्धत्वादहेतुः । अनुभवसिद्धं तु घटादीनां सत्त्वमर्थक्रिया का रित्वरूपं न स्थूलादन्यत् । सोऽयं हेतुः स्थूलत्वमपाकुर्वन्नात्मानमेव व्याहन्ति । ननु न स्थूलत्वमेव सत्त्वम् । अपि त्वसतो व्यावृत्तिः । अस्थौल्यव्यावृत्तिश्च स्थौल्यम् । व्यावर्त्यभेदाच्च व्यावृत्तयो भिद्यन्ते । अतः स्थौल्याभावेऽपिन सत्त्वव्याहतिः, अन्य- त्वात् । भवतु वा व्यावृत्तिभेदादवसायविषयभेदः । यत्पूर्वकास्त्ववसायास्तस्या- नुभवस्था विकल्पस्य प्रमाणस्य को विषय इति निरूपयतु भवान् । रूपपरमाणवो निरन्तरोत्पादा अगृहीतपरमसूक्ष्मतत्वा इति चेद्, हन्तैते गन्धरसस्पर्शपरमाणुभि रन्तरिता न निरन्तराः | तस्मादन्तराल | ग्रह एकघनवनप्रत्ययवत्परमाण्वालम्बनः सन्नयं विकल्पो मिथ्येति तत्प्रभवाविकल्या न पारम्पर्येणापि वस्तुप्रतिबद्धा इति कुतस्तदवसितस्य सत्त्वस्यानवयवत्वसाधकत्वम् । तस्मादविकल्पकस्य प्रत्यक्ष- स्य प्रामाण्यमिच्छता तदनुभूयमानस्थौल्यस्यैव सत्त्वमविकल्पावसेयमकामयता- प्यभ्युपेयम् । तथा च तद्बाघमानं सत्त्वमात्मानमेवापबाधेत । परमसूक्ष्माः पर- माणवो विजातीपरमाण्वनन्तरिता अनुभवविषया इति व्याहतमङ्गीकरणम् । तदिदमुक्तं – यस्य पुनरवस्तुकः स प्रचयविशेषो निर्विकल्पस्य विषयः । सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्पविषया इत्यत आह - सूक्ष्मं च कारणमनु- पलभ्यमविकल्पस्येति । तस्यावयव्यभावाद्धेतोरतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति लक्षणेन सर्वमेव प्राप्तं मिथ्याज्ञानं यत्स्थौल्यालम्बनं यच्च तदधिष्ठानसत्त्वालम्ब- नमित्यर्थः । नन्वेतावतापि न ज्ञानमात्मनि मिथ्या भवति तस्यावयवित्वेना- प्रकाशादित्यत आह–प्रायेणेति । - ननु किमेतावतापीत्यत आह - तदा चेति । सत्त्वादिज्ञानं चेन्मिथ्या तदा •सत्त्वादिहेतुकमनवयवित्वादिज्ञानमपि मिथ्यैव । तस्यापि हि निर्विकल्पागोचर- स्थूलमेवावसेयतया विषयः, स च नास्तीति तात्पर्यार्थः । विषयाभाव एव कुत- इत्यत आह – यद्यदिति । विरोधश्च परिणाम वैचित्र्येण मेदाभेदेन चोक्तोपपत्त्य - C CONSOR