पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २ ) पद्धत्या प्रोक्तेति गम्यते ( हिरण्यगर्भादिकृतयोगप्रवचनादिविषयाः प्रकरणान्तरे द्रष्टव्याः ) । किञ्च, सांख्यीया भूततन्मात्रादिपदार्थाः योगजप्रज्ञयैव साक्षात् क्रियन्ते, इति नित्यमिलितौ सांख्ययोगौ । महाभारते शान्तिपर्वणि सांख्यं योगं चाधिकृत्य यदेकत्वेन पृथक्त्वेन चोक्तम्, तत इदं गम्यते यदात्मज्ञानस्य तत्त्व काण्डं सांख्यम्, साधन काण्डं च योग इति । अतः सांख्ययोगौ परस्परपूरकाविति कथयितुं शक्यते । आह च भगवान् देवलः –” पञ्चविंशतितत्त्वज्ञानं सांख्यम्, विषयेभ्यो निवृत्त्याऽभिप्रेतेऽर्थे मनसोऽवस्थापनं योगः" इति ( कृत्यकल्पतरु मोक्ष- काण्डधृतमिदं वाक्यम्, पृ० १६५ ) । अत्राभिप्रेतार्थशब्देन सांख्यीया भूत- तन्मात्रेश्वरादयो ग्राह्याः। क्वचिञ्च, तत्त्वनिदिध्यासनपरायणाः सांख्याः, क्रियायोग- परायणाश्च योगा इत्यपि विवक्षा दृश्यते । रुचिवैचित्र्येण एतादृशे भेदे सत्यपि तत्त्वतो न भेदः, यथाह - "एक सांख्यं च योगं च यः पश्यति स पश्यति” (गीता ५।५) इति । आत्मविद्या – पुरेयं सांख्ययोगविद्या 'अध्यात्मयोग' – पदवाच्यासीदिति ज्ञायते । यथोक्तम् – “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति" इति ( कठ० उप० १ | २|१२ ) | क्वचिच्च, सांख्यकाण्ड विद्यापदे- नापि लक्षितम्, तदेतद् 'विद्यामेतां योगविधिं च कृत्स्नम्' (कठ. उप. २।६।१८) इति कठवाक्यतोऽवगम्यते । वस्तुतः सगुणं निर्गुणं चात्मज्ञानं तत्प्राप्त्युपायभूतं चित्तैकाग्रयादि च सांख्ययोगविद्याया मुख्यं प्रतिपाद्यं वस्तु । अध्यात्मचिन्ताविवरणपरं यत् प्रवचनमुपलभ्यते, तत्र सांख्यीयदृष्टिः स्पष्टमुप- लभ्यते ( द्र० शान्ति० ३१५।१०, अत्र याज्ञवल्क्यकृताध्यात्मज्ञानं वर्णितम्, तच्च च सांख्यानुयायि) । क्वचिच्च ससाधनमात्मज्ञानम् अध्यात्मविद्यापदवाच्यं भवति, अत एव 'अध्यात्मविद्या विद्यानाम्' इत्युच्यते । आत्मपदेन शुद्धं पुरुष- तत्त्वमेव ज्ञापितं भवतीति कृत्वा अध्यात्मपदं प्रयुज्यते, येन द्रष्टृ-दृश्यरूपे द्वे मूलभूते तत्त्वे गृहीते स्याताम् । यतो हि दृश्याव्यक्तादपि पुरुषः परः, अतो निःश्रेयसदृष्टया आत्मा आत्मज्ञानं वा परत्वेनोच्यते । यथाह मनुः- “सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम्” (११/८५) इति । याज्ञवल्क्यो- ऽप्याह – "अयं तु परमो धर्मो यद् योगेनात्मदर्शनम्” इति (१८) । श्रुति- श्वात्र- पुरुषान्नपरं किञ्चित् सा काष्ठा सा परा गतिः” इति (कठ १।३।११) । 3 आत्मपदेन शुद्धा चित्, त्रैगुणिको व्यावहारिक आत्मभावश्च गृह्येते; अत एव अस्मिताऽप्यात्मपदवाच्या भवति । 'आत्मन एष प्राणो जायते' इत्यादिषु श्रुतिषु अस्मितायुक्तोऽभिमानी पुरुषविशेष एव आत्मपदेन ग्राह्यः, न खलु निर्गुणा चिज् जनिक्रियाया आधारो भवितुमर्हति । पञ्चशिखोऽपि