पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ॐ आदिविदुषे कपिलाय नमः ॥ भूमिका ऐश्वर्यज्ञानवैराग्यधर्मरूपविभास्वते रुद्राय विष्णवे काय नम आदिशरीरिणे ॥ १ ॥ अशेषसांख्ययोगार्थप्रवक्ताऽमितधीऋषिः । धर्ममेघान्वितः शान्तो जयतु श्रीपतञ्जलिः ॥ २ ॥ प्रथमं प्रकरणम् सांख्ययोगविद्या, तस्या महत्त्व प्रचार ह्रासाच सांख्ययोगविद्या — इह' खलु भगवान् सिद्धेश्वरः सांसिद्धिकज्ञानवैराग्यै- श्वर्यसम्पन्नो विवेकख्यातिपरवैराग्यनिरोधशीलः परमर्षिः कपिलः सांख्यविद्याया- स्तदनुगतयोगविद्यायाश्च आदिमः प्रवक्तेति शिष्टपरम्परासु प्रसिद्धिः । आह चात्र पञ्चशिखः – “आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्याद् भगवान् परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाच" इति ( ११२५ व्यासभाष्यवृतमिदं वाक्यं पञ्चशिखोक्कमिति वाचस्पतिः ) । अत्र तन्त्रपदेन सांख्यशास्त्रं लक्ष्यते । अस्येतिवृत्तस्य कालः, तन्त्रस्य, तन्त्रप्रवचनस्य च स्वरूपमित्यादयो विषया उपरिष्टाद् विवेचयिष्यन्ते । , अत्रेदं विज्ञेयं यन्निर्माणचित्तं समाधि-प्रभवम् समाधिश्च यमादियोगाङ्गा- -नुष्ठानजः । अतो निर्माणचित्तमिति पदं समग्रां योगविद्यां लक्षयति — इत्य- भ्युपेयमेव । एतेन सांख्ये योगविद्याया अनुप्रवेशोऽक्कालिक इति केषाञ्चिद् मतमपार्थकमेव । तथैव ध्यानावलम्बनीभूतपदार्थानां यौगिकत्वात्, योग- विद्यायां सांख्यीयतत्त्वानामनुप्रवेशोऽर्वाक्कालिक इत्याधुनिकगवेषकाणां मतं तर्कासह मिति वेदितव्यम् । अतः कपिलेन योगविद्याऽपि आन्वीक्षिकी-

  • भूमिकेयं चतुर्भिः प्रकरणैविभक्ता । एषु प्रकरणेषु असंकीर्ण-सांख्ययोग-

विद्यादृष्ट्या विषया विवेचिताः । सा च दृष्टिरस्माभिः कापिलाश्रमीय-पातञ्जल- योगदर्शनकार-स्वामिश्रीहरिहरानन्दारण्यचरणतः प्राप्ता । स्वामिचरणकृत- ग्रन्थेभ्ययात्र युक्त्युदाहरणानि बहून्याहृतानि । १. सुखावबोधार्थं बहुत्र पदानि संहिताकार्यमकृत्वैवेह स्थापितानि ।