पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. १ सू. २४ योऽसौ प्रकृष्टसत्त्रोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्थिन्निर्निमित्त इति ? तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् । २५ अत्र पृच्छति – योऽसाविति । ज्ञानक्रियेदि न चिच्छतेरपरिणामिन्याः संभवत इति रजस्तमोरहितविशुद्धचित्तसत्त्वाश्रये वक्तव्ये । न चेश्वरस्य सदा मुक्तस्याविद्याप्रभवचित्तसत्त्व समुत्कर्षेण सह स्वस्वामिभावः संबन्धः संभवतीत्यत उक्तं-- प्रकृष्टसत्त्वोपादानादिति । नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनश्चि- त्तसत्त्वेन स्वस्वामिभावः, किं तु तापत्रयपरीतान्प्रेत्यभावमहार्णवाजन्तूनुद्ध- रिष्यामि ज्ञानधर्मोपदेशेन । न च ज्ञानक्रियासामर्थ्यातिशय संपत्तिमन्तरेण तदु- पदेशः । न चेयमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विनेत्यालोच्य सत्त्व- प्रकर्षमुपादत्ते भगवानपरामृष्टोऽप्यविद्यया । अविद्याभिमानी चाविद्यायास्तत्त्व- मविद्वान्भवति न पुनरविद्यामविद्यात्वेन सेवमानः । न खलु शैलूषो रामत्वमारोप्य तास्ताश्चेष्टा दर्शयन्भ्रान्तो भवति । तदिदमाहार्यमस्य रूपं न तात्त्विकमिति । स्यादेतत्-उद्दिधीर्षया भगवता सत्त्वमुपादेयं तदुपादानेन च तदुद्दिघीर्षा, अस्या अपि प्राकृतत्वात् । तथा चान्योन्यसंश्रय इत्यत उक्त - शाश्वतिक इति । भवे- देतदेवं यदीदंप्रथमता सर्गस्य भवेत् । अनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमु- त्पन्नसंजिद्दीर्षावधिसमये पूर्णे मया सत्त्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवाञ्जगत्संजहार । तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितप्रधानसाम्यमुपग- तमपि परिपूर्ण महालयावधौ प्रणिधानवासनावशात्तथैवेश्वरचित्तसत्त्वभावेन परिणमते । यथा चैत्रः श्वः प्रातरेवोत्थातव्यं मयेति प्रणिधाय सुप्तस्तदैवोत्तिष्ठते प्रणिधान संस्कारात् । तस्मादनादित्वादीश्वरप्रणिधानसत्त्वोपादानयोः शाश्वति- कत्वेन नान्योन्यसंश्रयः । न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि न प्रकृतिसाम्य- मुपैतीति वाच्यम् । यस्य हि न कदाचिदपि प्रधानसाम्यं न तत्प्राधानिकं नापि चितिशक्तिरशत्वादित्यर्थान्तरमप्रमाणिकमापद्येत । तच्चायुक्तम् । प्रकृतिपुरुषव्य- तिरेकेणार्थान्तराभावात् । सोऽयमीदृश ईश्वरस्य शाश्वतिक उत्कर्षः । कि सनि- मित्तः सप्रमाणक आहोस्विन्निर्निमित्तो निष्प्रमाणक इति । उत्तरं तस्य शास्त्रं निमित्तम् । श्रुतिस्मृतीतिहासपुराणानि शास्त्रम् । चोदयति--शास्त्रं पुनः किंनिमित्तम् । प्रत्यक्षानुमानपूर्वं हि शास्त्रम् न चेश्व- रस्य सत्त्वप्रकर्षे कस्यचित्प्रत्यक्षमनुमानं वास्ति । न चेश्वरप्रत्यक्षप्रभवं शास्त्र- मिति युक्तम् । कल्पयित्वापि ह्ययं ब्रूयादात्मैश्चर्यप्रकाशनायेति भावः ।' परिहरति- प्रकृष्टसत्त्वनिमित्तम्। अयमभिसंधिः- मन्त्रायुर्वेदेषु तावदश्वरप्रणीतेषु प्रवृ- त्तिसामर्थ्यादर्थाव्यभिचारविनिश्चयात्प्रामाण्यं सिद्धम् । चौषधिभेदानां तत्सं- -