पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रम् २४ पा.सू. २४ ] क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥ अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं बिपाकः, तदनुगुणा वासना आशयाः । ते च मनसि वर्तमानाः पुरुषे व्यपदिश्य- न्ते, स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः, ते हि त्रीणि बन्धनानि च्छिन्त्या कैवल्यं प्राप्ताः। ईश्वरस्य च तत्संबन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य । यथा वा प्रकृति- लीनस्योत्तरा बन्धकोटिः संभाव्यते, नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति । माह — क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः । अविद्यादयः क्लेशाः। क्लिश्यन्ति खल्वमी पुरुषं सांसारिक विविधदुःखप्रहारेणेति। कुशलाकुशला नीति धर्माधर्माः। तेषां च कर्मजत्वादुपचारात्कर्मत्वम् । विपाको जात्यायुर्भोगाः । विपाकानुगुणा वासनास्ताश्चित्तभूमावाशेरत इत्याशयाः । न हि करभजातिनि- वर्तकं कर्म प्राम्भवीयकरभभोगभावितां भावनां न यावदभिव्यनक्ति तावत्कर- भोचिताय भोगाय कल्पते । तस्माद्भवति करभजात्यनुभवजन्मा भावना कर भविषाकानुगुणेति । नन्वमी क्लेशादयो बुद्धिधर्मा न कथंचिदपि पुरुषं परामृ- शन्ति । तस्मात्पुरुषग्रहणादेव तदपरामर्शसिद्धेः कृतं क्लेशकर्मेत्यादिनेत्यत आह—ते च मनसि वर्तमानाः सांसारिके पुरुषे व्यपदिश्यन्ते । कस्मात्, स हि तत्फलस्य भोक्ता चेतयितेति । तस्मात्पुरुषत्वादीश्वरस्यापि तत्संबन्धः प्राप्त इति तत्प्रतिषेध उपपद्यत इत्याह-यो ह्यनेन बुद्धिस्थेनापि पुरुषमात्रसा- धारणेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। विशिष्यत इति विशेषः । पुरुषान्तराद्वथवच्छिद्यते । विशेषपदस्य व्यावत्यं दर्शयितुकामः परिचोदनापूर्वं परिहरति—कैवल्यं प्राप्तास्तति । प्रकृतिलयानां प्राकृतो बन्धः । वैकारिको बन्धो विदेहानाम् । दक्षिणादिबन्धो दिव्यादिव्यविषयभोगभाजाम् । तान्यमूनि त्रीणि बन्धनानि । प्रकृतिभावनासंस्कृतमनसो हि देहपातानन्तरमेव प्रकृतिलयतामापत्न्ना इति तेषां पूर्वा बन्धकोटिः प्रज्ञायते, तेनोत्तरकोटिविधानमात्रम् । इह तु पूर्वापरकोटिनिषेध इति । संक्षिप्य विशेषं दर्शयति स तु सदैव मुक्तः सदैवेश्वर इति । ज्ञानक्रियाशक्तिसंपद् ऐश्वर्यम् ।