पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ९३ ) शास्त्रयुक्तिसमाकीर्णा भूमिकेयं भगो बुधाः । गृह्यतां हृदयेनैषा खण्ड्यतां वा सुयुक्तितः ॥ १ ॥ 'अब्रुवन् विब्रुवन् वापि नरो भवति किल्विषी' । मनूक्तिरेषा विज्ञेया कार्याकार्यविचारणे ॥ २ ॥ सदर्थस्यासदर्थस्य धारणे च विसर्जने । बद्धादरो जीवकोऽयं रामशंकर-नामकः ॥ ३ ॥ यस्य पितामहो राजाराम: पशुपतिः पिता । वीणापाणिश्च जननी सोऽस्य ग्रन्थस्य लेखकः ॥ ४ ॥ इति श्रीकापिलमठाचार्य-( मधुपुर, बिहार ) लब्धयोगविद्येन, वेद-पुराण-दर्शन-शब्द-विद्यानुसन्धान-परायणेन, श्रीरामशंकरभट्टाचार्येण रचिता भूमिका समाप्ता ।