पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ९२ ) केशिध्वजः सांख्ययोगाचार्य इत्येवाभ्युपेयम् । अत्रोक्तः श्लोकः ( ६।६।२ ) योगदर्शनेऽपि ईषत्पाठभेदेन सहोद्धृतो दृश्यते ( १ | २८ ) | अष्टाङ्गयोगोऽत्र विवृतः । सनन्दनादयो ब्रह्मभावनायुता आसन्नित्यत्रोक्तम् ( ६ । ७।५० ) । वाल्मीकिः– किं रामचरितकारोऽयमिति विचार्यो विषयः । कश्चिद् वाल्मीकिः शिवविषये स्वानुभवं कथयामास युधिष्ठिरायेति श्रूयते ( अनुशासन • १८/८ - १०) । रामायणकृद् ऋक्षो वाल्मीकिः खलु भृगुवंशीय इति पुराणे षूक्तम्, अतो भगूपदिष्टा सांख्यविद्याऽनेनाधिगतेति प्रतीयते । व्यासो द्वैपायनः—अयमपि सांख्ययोगाचार्यः, अत एव स 'भृगुवाक्य- प्रवर्ती’त्युच्यते । ( वायु० १।४२), भृगुश्च सांख्ययोगाचार्य इति । शुकं प्रति अनेन बहुधा यदुपदिष्टं ( शान्ति० २३१ - २५४ अ० ) तत्र सांख्यज्ञानमेवा वलोक्यते, पातञ्जलयोगविवरणं च। अतिसारव दिदं विवरणम् । कठाद्युपनिषत्- प्रोक्तज्ञानमत्र बहुधा विवृतम् । अत्र ज्ञानयोगमार्गचिन्ता वर्तते । विन्ध्यवासी – योगभाष्ये यस्तप्यतापकभावविवरणमास्ते ( २ । १७ ), तत्प्रवक्तृषु अन्यतमो विन्ध्यवासीति प्रतीयते ( द्र० भोजवृत्तिः ४ | २२ ) | कोऽयं विन्ध्यवासीति न ज्ञायते; पदमिदं नाम वा, विन्ध्यवासकारिणि मुनि- विशेषे प्रयुक्तमिति वा चिन्तनीयम् । तत्त्ववैशारद्यां वाचस्पतिः रसायनोपयोग- विभूत्युदाहरणप्रङ्ग आह-“यथा माण्डव्यो मुनी रसोपयोगाद् विन्ध्यवासीति” (४।१)। इदं भवितुमर्हति यद् रसप्रयोगकुशलो माण्डव्य एवायं सांख्याचार्यः । नागार्जुनः रसरत्नाकरग्रन्थे रसाचायौं वसिष्ठमाण्डव्यौ स्मरति स्म । माण्डव्य- विषयिका काचिद् घटना कौटलीयेऽर्थशास्त्रे स्मयंते (४/८) । कमलशीलेन सत्कार्यवादविषयकं विन्ध्यवासिमतमाक्षिप्तम् ( तत्त्वसंग्रह ० पृ० २२ )। तदिदं दोषप्रदर्शनं मुधैवेति वाचस्पतिर्दर्शितवान् ( ३११३ तत्त्ववै ० ) । विन्ध्यवासिनो भूयांसि मतानि युक्तिदीपिकायाम् (पृ० ४, १०८, १४४ ), श्लोकवार्त्तिके ( पञ्चमसूत्रस्योपरि ), गुणरत्नसूरिकृत-षड्दर्शनसमुच्चयव्याख्यायाम् (पृ० १०४); स्यावादमञ्जरी टीकायाम् १५ श्लो०, तत्त्वसंग्रह-पक्षिकायाम् ( पृ० २२, ४२३, ६३६), अभयदेवसू रिकृतसन्मतितर्कव्याख्यायाम् ( पृ० ५३३ ), मेघातिथिभाष्ये ( १ | ५५ ), अन्यत्रापि दृश्यन्ते ( द्र० सां० द० इ० यथास्थानम् ) । उलूक - गौतमापान्तरतमादयो य आचार्याः प्रागभिहिताः, सांख्ययोग- विषये तेषां विशिष्टं वचनं ग्रन्थादिकं वा नोपलभ्यते, यद्यपि योगिरूपेण तेषा मुहलेखस्तु पुराणादिषु दृश्यत एव । ग्रन्थान्तरे गौतमाद्याचार्यविषये विचार- यिष्यामः ॥