पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'वृद्धव सिष्ठसिदान्तः । तरगोर्ग्रहगो चैव कृष्णवर्णं भवेत् सदा | रहस्यमेतदाख्यातं तवाग्रे गुह्यमुत्तमम् ॥ २४ ॥ अपरोक्षितशिष्याय दातव्यं न कदाचन । इति श्रीअर्पिवृद्धवसिष्ठमणीते गणितस्कन्धे विखप्रकाम परिलेखाधिकारः षष्ठः ॥ ६ ॥ १३ वसिष्ठ उवाच । अथ ताराग्रहाणां च युद्धं बच्चे द्विजोत्तम । समागमं च तद्युद्धं चतुर्धा भवति ध्रुवम् ॥ १ ॥ अंशुमर्दोऽपसव्याख्यमुल्लेखा भेद इत्यपि | अंशाधिकं यदा खेटान्तरं स्यात् स समागमः ॥ २ ॥ अंशुमर्दनकं युद्धमंशुयोगे परस्परम् | अंशाहूनेऽपसव्याख्यं युद्धमेकाऽत्र चेदाः ॥ ३ ॥ उल्लेखाद्ययं च तत् स्पर्शाहदे भेदः प्रकीर्त्तितः । समागमय चन्द्रेण प्रोच्यतेऽपि द्विजोत्तम ॥ ४ ॥ सूर्येयास्तमनं साकं सर्वेषां च नभःसदाम् | अथ तद्गणितं वच्च यथाऽधीतं पितामहात् ॥ ५ ॥ प्राग्यायिनेोः खेचरयेईये च 7 शीघ्रग्रहो मन्दखगाधिकश्चेत् । गतोऽन्यथा वा भविता हि योग- स्तरखेट योर्वऋण ये|स्तु वामम् ॥ ६ ॥