पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पितामहसिद्धान्तः । श्रीगणेशाय नमः | 1 पुष्कर उवाच । अघ भगवन्तं भुवनोत्पत्ति स्थितिसंहारकारक चराचरगुरुं प्रतियशस समधिगम्य भृगुर्विज्ञापया- मास । भगवन् ज्योति शास्त्रं विना गणितेन दुरवगाह- मतो गणितविधिमाचच | तमुवाच श्रीभगवान् । ट्णु वत्स गणितज्ञानम् । अनादिनिधनकाल: प्रजापतिर्वि- ८णुः । तस्य ग्रहगत्यनुसारेण ज्ञानं गणितम् । तत्रार्कस्य भागभोगः सौराडोरात्रम् | तिथिञ्चान्द्राः । अद- यात् सावन: । चन्द्रनक्षत्रभोगेन नाक्षत्राहोरात्रम् | सावनाहोरात्रं नराणाम् । सार्क तेषां दिनम् । व्यकां रात्रिः । चन्द्रम सञ्चान्द्रमासः पितृणाम होरात्रम् | तेषां कृष्णाष्टम्यामदयः । अमावास्यायां मध्याह्नः | शक्लाष्टम्यामस्तसमयः । पौर्णमास्यामर्धरात्रम् । अर्क भगाभोग: दिव्याहोरात्रम् | तेषामर्कस्य मेपप्रवेशे सूर्योदय : कर्कटप्रवेशे मध्याह्नः | तुलाप्रवेशेऽस्तसमयः । मकर प्रवेशेऽर्धरात्रम् | मेषादिस्थे मध्यमे जीवे नोवमा-