पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्येवमादिभिर्वेदप्रमाणैः सिद्धेऽपि सूर्यस्य स्थिरत्वे, पृथिव्याश्चलत्वे वैपरीलेयेनानृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तभर्थम् ॥ स एष वा न कदाचनास्तमेति, नोदेति । तं यदस्तमेतीति मन्यन्ते, अह्य एव तद न्तमित्वा अथात्मानं विपर्यस्यते । रात्रीमेवावस्तात् कुरुते , अहः परस्तात् ॥ अथ यदेनं प्रातरुदेतीति मन्यन्ते-रात्रेरेव तदन्तमित्वा अथात्मानं विपर्यस्यते; अहरेवावस्तात् कुरुते, रात्रीं परस्तात् । स वा एष न कदाचन निम्लोचति ॥” इत्येवमैतरेयादिश्रुत्या स्पष्टभेवाहोरात्रयोः पृथिवीगतिनिमित्तकत्वे सिद्धेऽप्यनृतं सूर्यगतिनिमित्तकत्वं सूर्यास्तमनं एवं घटशब्दप्रयोजकाकाराकारितान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात्तदभिन्नतयैवै कत्वेन प्रतिपन्नस्य मृतिकाणुविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छेदेन'घटशब्दसंकेतसिद्धद्या तत्तद्यवहारोपपत्तौ सिद्धायामपि समवायेनावयवेधूत्प स्रोऽवयवातिरिक्तोऽपूर्वः कश्चिदवयवी घटशब्दवाच्य इलेयेवमनृतं व्यवहारतः प्रतिपद्यन्ते किं बहुना ? लोके हि सर्वत्रैवार्थे प्रतिपत्तिस्त्रिविधा दृष्टा-पारमार्थिकी, व्यावहारिकी प्रातिभासिकी चेति । पारमार्थिकी, आर्थिकी, वास्तविकीत्यनर्थान्तरम् । व्यावहारिकी औपयौगिकी, औपचारिकीत्यनर्थान्तरम् । प्रातिभासिकी, आध्यासिकी, वैकल्पिकील्यनर्था न्तरम् । यथा काचे स्फटिकबुद्धिराध्यासिकी, काचे काचबुद्धिरौपयौगिकी, काचे मृदुद्धि रार्थिवी । एवं पृथिव्यपेक्षया सूर्यस्य कूटस्थता वास्तविकी, पृथिवीं परितः सूर्यस्य वार्षिक गतिः पूर्वाभिमुखीना औपचारिकी, पृथिवीं परितः सूर्यस्य दैनंदिनगतिः पश्चिमाभिमुखीना प्रातिभासिकी-इलेवं सर्वत्र त्रैविध्यं द्रष्टव्--- । तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्त विक्याः ग्ल्यत्वमेव, व्यावहारिक्याः सत्यासत्यत्वम् । अन्यथा सतोऽपि व्यवहारसिद्ध नुगेधेनान्यथा प्रकल्पिनरूपस्य लोके उपयोगदर्शनात् । एतदभिप्रायेव ‘नानृतं वदेत्’ इति प्रतिज्ञाय–“अथो खल्वाहुः-कोऽर्हति मनुष्य सर्वं सत्यं वदितुम् । सत्यसंहिता वै देवाः, अनृतसंहिता मनुष्याः ।” इत्यैतरेयके, ‘द्वयं वा इदं न नृनीमरित सत्यं चैवानृतं च । सत्यं देवाः, अनृतं मनुष्या ।' इति शतपथ श्रुर्न च व्यवहारमापेक्षन्वेऽनृतनिष्ठन्वान्मनुप्यन्यम्, वस्तुन्द्रपसापेक्षत्वे तु सत्यनिष्टत्वा हैवन्वमुपदिटं महर्षिभिः । अत एव च–‘शतं वपणि जीव्यासांपल्याह । तदेछछूवन्नाद्रि येत । अपि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति ।।' इति शतपथश्रुतां स्पष्टमेव लौकि कतिपतिमूलकव्यवहारस्यानादरणीयत्वमुपदिश्यते । तस्मात्रैतादृशलौकिकप्रतिपत्त्यभाव मनुरुध्य कश्चिदर्थः प्रमाणसिद्धः शक्यते प्रल्याख्यातुमिति दिक् . । अथ न खम्पन्नोऽम्म त्वमप्रसिद्धिः । छादकत्वम्यत्र छन्द:पदशक्यतावच्छेदकतया तत्र तदसत्त्वानवहकृतेः । न च स्यादेवमाच्छादकन्त्रं यदि तावच्छन्दस्यं मानादीनां प्रमाणसिद्धं स्यादिति वाच्यम् : ‘मा च्छन्दः. प्रमा च्छन्दः प्रतिमा च्छन्दः' इति श्रुलिया