पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छन्दस्त्वस्य तेषु वचनतः सिद्धेः । संख्यादिपरिच्छेदे माशब्दस्य, तत्तदर्धायतनभूता यामाशयपदवाच्यायां वस्तुप्रतिष्ठायां प्रमाशब्दस्य, तुलितके च प्रतिमाशब्दस्य व्याख्या स्यमानत्वात् । नन्वेवं तर्हि तदुभयवचनप्रामाण्यान्मानत्वं प्रतिष्ठात्वं तुलितकत्व मथाच्छादकत्वं चैतानि शक्यतावच्छेदकानि स्युः! न त्वेतावतापि मानाद्यवच्छेदानामा च्छादकत्वं सिद्धवतीतेि चेत्-न, ‘यदेभिराच्छादयन् तच्छन्दसां छन्दस्त्वम्’ इत्येवमा दीनां छादकत्वस्यैव छन्द:पदप्रवृत्तिनिमित्तत्वमभ्युपगत्रीणां श्रुतीनां छन्द:पदाभिधेयेषु तेष्ववच्छेदेष्वाच्छादकत्वस्यास्तित्वबोधने एव तात्पर्यावसायात् । तत्तर्हि कीदृगाच्छा दकत्वमवच्छेदानामिष्टमिति चेत्,-नेतरदितराच्छादक धर्मादिति गृहाण । ननु च भो येनैव सता तद्वस्तुखरूपं न प्रतिपद्यते, तिरोहितं भवति, तस्मिन्नन्तर्धानप्रधाने संव रणे आच्छादनशब्दो दृष्टः । “घटाच्छादितः प्रदीपः, वस्त्राच्छादितं द्रव्यम्, रजसा च्छादिते भानौ, ‘स्तनयुगपरिणाहाच्छादिना वल्कलेन ‘न हया न रथो वीर ! न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥' (म. भा. वन. २०॥२४) इत्यादिषु दीपादीनां घटादिद्रव्यैस्तिरोधानेनाप्रतिपत्तिदर्शनात् । प्रकृते पुनर्नेतदेवं दृश्यते । न चावच्छेदेन सता तदवच्छिन्न किंचिदन्तर्धते, तस्मादनाच्छादका अव च्छेदाः प्रतिपद्यन्ते-इतेि चेत्सल्यम् । उच्यते—न केवलमन्तर्धानमेवाच्छादनशब्दस्य विषयः, किं तर्हि बहवो विषयास्तच्छच्दस्योपलभ्यन्ते । तथा हेि–“अशाच्छादनभागः यम्’, ‘आच्छाद्य चार्हयित्वा च श्रुतशीलवते खय'मेित्यादिश्रूपसंव्यानम् १, ‘आभूषाणा च्छादिताङ्गी’ ‘छदयति सुरलोकं यो गुणैर्य ३: युद्धे.सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च । इत्यादिषु पर्याधानम् २, ‘चन्दनच्छन्नगात्र ’, ‘तैलाच्छन्न कलेवरम्’, ‘घृताच्छन्न व्यञ्ज नम्’ इत्यादिषु चर्चितकत् ३, ‘मेघच्छन्नेऽह्नि दुर्दिनम्’, ‘कण्टकच्छन्नमार्गेषु' इत्यादि ष्ववरोधः ४, 'ईशावास्यमिदं सर्वम्’, ‘आ-छाद्यते त्वद्यशसा समस्तम्' इत्यादिषु व्याप्तिः ५ , ‘छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः । निरुच्यते छर्दिरिति दोषो वत्रं प्रधा वितः' । (सुश्रुतः) इत्येवमादिषु दूषितकरणम् ६, ‘निचितं तु हँसपक्षः कृकवाकुमः . यूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं शुङम् ॥ दण्डार्धविस्तृतं द7 मावृतं रन्नभूषितमुदमम् ॥ नृपतेस्तदातपत्रं मल्याणकरं विजयदं च । अन्येषामुणत्रं प्रसादपद्वैर्विभूषितशिरस्कम् । व्यालम्बिरन्नमालं छत्रं कार्य च मायूरम्’ ॥ (बृहत्सं हिता ।) इत्येवमादिषु खरूपकरणम् ७, ‘अभिमन्तश्छादयसि' ( अथ. ९॥३॥१४), ‘अत्रं छादयेदाज्येन’ (कात्यायनश्रौतसूत्रम् ४॥६॥५) इत्येवमादिर्जनम् ८, ‘छले स्थाने समासीनः’ इत्यादिषु विविक्तम् ९, ‘गर्गश्च गोकुले तत्र वसुदेवप्रणोदितः । प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥' (विष्णुपु. ५. अं. ६ अ.) इत्यावज्ञानत्वम् १० गायत्रेण छन्दसा त्वा छादयामि, त्रैष्टमेन छन्दसा त्वा छादयामि, छादयन ह बा