पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऐतरेयकेऽपि “तस्या वाचोऽवपादादबिभयुः-तमेतेषु सप्तसु छन्दःखश्रयन् । यदश्रयन् । तच्छूयन्तीयस्य श्रायन्तीयत्वम्-यदवारयन्-तद्वारयन्तीयस्य वारयन्ती यत्वम् । तस्या वाच एतावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दांस्य पादधुः । तेषामतित्रीण्यतिरिच्यन्ते । न त्रीण्युदत्तवत् स बृहतमेवास्पृशत्-द्वाभ्यामक्षः राभ्यामहोरात्राभ्यामेव । तदाहुः-कतमा सा देवाक्षरा बृहती-यस्यां तत् प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः-द्वादशाष्टकाः-द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती यस्यां तत् प्रत्यतिष्ठदिति । यानि च च्छन्दांस्यत्यरिच्यन्त यानि च नोदभवन्-तानि निवर्याणि हीनान्यमन्यन्त । साऽब्रवीद् बृहती । मामेव भूत्वा मामुपसंश्रयतेति । चतुर्भिरक्षरैरनुष्टुब बृहतीं नोदभवत् । चतुर्भिरक्षरैः पङ्किहतीमत्यरिच्यत । तस्यामेता नि चत्वार्यक्षराष्घपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् । अष्टाभिरक्षरैरुष्णिग् । बृहतीं नोदभवत् । अष्टाभिरक्षरैस्त्रिष्टुप् बृहतीमत्यरिच्यते । तस्या मेतान्यष्टावक्षराण्यपाच्छद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसममश्रयताम् ॥ द्वादशभिरक्षरैगर्गायत्री बृहतीं नोदभवत्, द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्या मेतानि द्वादशाक्षराण्यपच्छिद्यादधान् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् ॥” इल्यान्नायते । तत्रान्तरेण च्छन्दोवेदमशक्यमासां गायत्र्युष्मिगनुष्टुभामनुद्भवनमन्यासां च पङ्कित्रिष्टव्जगतीनामतिरेचनं यथायथावद्विज्ञातुमित्यारम्भणीयछन्दोवेदः ॥ १९ ॥ इतीमान्यन्यानि चैवंविधानि भूयांसेि प्रयोजनानि पश्याम इत्यारम्भणीयश्छन्दोवेद ॥२०॥ अथ कश्चिद् ब्रूयात्-यान्येतानि प्रयोजनान्युक्तानि ततो नु खलु वैदिकानामेव च्छन्दसां विधानशास्त्रस्यावश्यकत्वं प्राष्ट्रोति; न पुनलैंकिकानामपीति । तत्रोच्यते त्रिविधानि हि वाचां छन्दांसि; कानिचिद्वैदिकान्येव, कानिचिद्वैदिकानि च लौकिकानि च, कानिचित् पुनर्लौकिकान्येव । तत्रावश्यमुभयेषां निदर्शनाय शास्त्रारम्भः प्रवर्तनीयस्तल यदि–“घटायोन्मीलितं चक्षुः किमन्यन्न प्रकाशयेत् ?”–इति न्यायेन लौकिकान्यपि दश्र्येरन्: तत्तर्हि तावता छन्दोयाथात्म्यविजिज्ञासूनां छन्दोविज्ञानसौकर्यानुग्रहो भवति । अत एव तु वैदिकांनि च्छन्दांसि साकल्येन प्रदर्श लैौकिकानां दिग्दर्शनेनानुगृह्णाति भग वान् पिङ्गलाचार्यः । अनेन चाविशिष्टबुद्धिरपि तानि तानि छन्दोवृत्तांने यथावदवगम्य तद्रवनाभिनयादिना कृतकृत्यः कतिानन्दमासादयेत् ॥- काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥” (का. प्र. १॥२) ४८ इति हि भूयांसेि प्रयोजनानि काव्यस्य पठन्ति । छन्दोभिनेयं तु वाक्यं रसोद्वोधे काव्यमित्युच्यते । तदतश्छन्दोभङ्गो रसापकर्षितया काव्यत्वव्याघातको भवति । तस्माञ्च छन्दोभङ्गदोषेण काव्यप्रयोजनेभ्यो माव्यतिरेचिष्महील्यपेक्षमाणानामारैम्भः णीयं लौकिकानामपि च्छन्दसां विज्ञानशास्त्रम् । उक्तं च प्राकृते पैङ्गळे--