पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] छन्दःशास्रम् । मेघविस्फूर्जिताच्छन्दः (१९॥७५७१३)- ‘रसत्र्वचैर्मी न्सौ रगुरुयुतौ मेघविस्फूर्जिता स्यात् । वृ०रः पुष्पदामच्छन्दः (१९७५७४५)- भूताश्चाश्वान्तं मतनसरगैः क्रीर्तितं पुष्पदाम ।’ अस्य 'फुलुदाम’ इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९८३९०५)- भवेत्सैव छाया तयुगगयुता स्याद्वादशान्ते यदा । बिम्बच्छन्दः (१९॥१४९४७३)- ‘वृत्तं बिम्बाख्यं शरमुनितुरगैम्तैों न्सौ तौ चेदुरुः । ' छायाच्छन्दः (१९॥१५७६३४)- 'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भ्तौ गुरु ।’ यश्चचामरच्छन्दः (१९॥१७४८४८)- ‘नयुगललगुरु निरन्तरं यदा स पञ्चचामरः ।। मणिमञ्जरीच्छन्दः (१९॥१८५३३०)- ‘युगावैः स्याद्यभनयजजगाः कीर्तिता मणिमञ्जरी ।’ सरलच्छन्दः (१९॥१८६०४०)- ‘नवभिर्दशभिश्छित्रं सरलं न्भ्रसजा जगौ ।' मं० म० मकरन्दिकाच्छन्दः (१९१८६३०६)-- ‘रसैः भिलॉकैर्यमनसजा गुरुर्मकरन्द्रिका ।’ वरूथिनीच्छन्दः (१९॥१९४९४)- ‘शरत्रयैर्युगैश्छिन्ना जन्भस्रज्या वरूथिनी ।' मं० म० समुद्रतताच्छन्दः (१९२१५८७८)- ‘गजाब्धितुरगैर्जसौ जसतभा गश्चेत्समुद्रतता । (वृत्तरन्नाकरपरिशिष्ट) सुरसाच्छन्दः (१९॥२३७४५७)- ‘म्रौ भ्नौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् । चन्द्रमालाच्छन्दः (१९॥५२३२६४)- ‘ठइवि दिअवरजुअल मज्झ करअल करहि पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ विमलमइ उरअवइ चंदमल कहइ सइ ॥’ प्रा० पि० सू० २२४२)