पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५६

 २२. अथासौ पुनरप्यात्मगतं जगाद-। सर्वेऽपि चोरा ध्रुवं लयं गताः। गुहाप्रवेशरहस्यं च महर्जं न कोऽप्यन्यो जानाति । येन समग्रस्यैतावतः कोशस्य, अहमेवासाधारणः स्त्रामी । एनमहं यथाकामं भोक्तुमीशे । ततः तेनात्मना सार्धमानीतो महान्स्यूतः स्त्रर्णमुद्राभिर्निरन्तरं पूरितः। प्रच्छनं च पुरं प्रत्यानीतः ।

 २३. केनचित्कालेनालिपर्वणा स्वनुजस्तामटवीं नीत्वा गुहारहस्यं ज्ञापितः । स तनयोऽपि विपुलां तां संपदं चातुर्येणोपयुञ्जानो भुञ्जानश्च गच्छता कालेन ननराध्यक्षपदं प्राप्तः । सोऽपि पितरमनुकुर्वंस्तद्रहस्यं स्वीयं पुत्रमुक्तवान्, सोऽपि स्वीयम् । अनया परंपरया तद्रुहास्यं बहुलानि वर्षाणि यावदलिपर्ववंशजा जज्ञुः । तद्रुहागतानि सर्वाणि महार्घाणि वस्तूनि शनैःशनैरास्मसाच्चक्रुः । एवं क्रमेण गुहान्तर्वर्ती स धनसंचयः प्रचुरो- प्यस्तमितो बभूव । तेनैव समं तद्रहस्यगोपनप्रयोजनमपि । यतः खल्वहं कथामिमामामूलादलिपर्ववंशजाद्बेदितुं युष्मभ्यं च निवेदयितुं प्राभूवम् ।

 २४. अथ, अतिप्रभूतोऽपि चोरसंचितो धनराशिः कालेन क्षीणतां गतःइयालोच्य स्मरामि भगवतो व्यासस्य वचनम् -----

  सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः ।
  संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ४३ ॥

इति समाप्तेयं चोरचत्वारिंशी नाम कथा ।