पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका । इति सर्वमङ्गलोक्तिः । यदि मम वामा सुन्दरी वामैव वामाङ्गभूतैव स्यात्तदा वामेन वामाङ्गेन को गुणः न कोपीत्यर्थः । अथवा यदि वामा सुन्दरी वामाङ्गा स्यात्तदा मे को गुणो न । अपि तु सर्वमेव गुणवत्तरमिति शिवोक्तिः । त्रिविधेति मायोत्तीर्णमायाशवलतया ब्रह्म- णो द्वैविध्यं मायाशवलमपि हिरण्यगर्भपाणात्मतया द्विधेति त्र्यैविध्यं । गायत्रीमन्त्रस्य वाच्यवाचकतया संयोजने पार्वतीपरमेश्वरौ ज्ञानप्रदौ मे भूयास्ताम् ॥ इति ॥ डों वेदलोकसमीराणां सावित्री सारसंगता । मेधां दधातु सारांशा गायकत्राणतत्परा ॥ स्वयं सारांशभूता सावित्री वेदलोकसमीराणां सारांशेन डकारण्या- हृति प्राणवायुना संगतासती गायकानां त्राणतत्परा पूर्वापरानुसन्धा- नवती मतिं दधाविति ।।