पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका । विदात्मजः श्री (दर) जातिशेखरो लोकोपकाराय कुलानुसारतः शिष्टिं व्यधादऽर्थप्रकाशने मयि वेदस्य मातुर्बलभद्रनामकः ॥ १ ॥ अकारि तच्छासन पालनं मया न मन्त्रसारार्थप्रकाशनं कृतम् । क दक्षीराब्धिविनिर्गतं पर विशिष्टरत्नं कच मन्दधीर्मम ॥ २ ॥ ॥ अथ मङ्गलाचरणम् ॥ में दाक्षिण्ये न कृतं तदा यदि भवेत्प्रेयान्निजो दक्षिण को बामेन गुणस्तदा यदि भवेद्वामैववामा मम । इत्यालोच्य कृतस्पृहौ निज- शरीरार्धार्धसंयोजने भूयास्तां त्रिविधाभिधेयघटने ज्ञानप्रदौ मे शिवौ ॥ मन्त्रस्येति शेषः यदि निजः प्रेयान् पतिः दक्षिणोऽनुकूलः स्यात्तदा दाक्षिण्येन बुद्धितक्ष्ण्येन कृतं सर्वं न तम्मादधिकं किञ्चित्कार्य धियः अथवा यदि निजः पतिः दक्षिणः दक्षिणभागवर्ती तदा दाक्षिण्येन दक्षिणभागेण कृतमलम् । तेन न किञ्चित्कार्य त्याज्यमित्यर्थमित्यर्थः ।