पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
[ सर्गः ८
कुमारसंभवे

उत्थितं सद्यावत् , स्थानमिति शेषः । प्रकाशयति तावताधश्र्युतं सत् । तत्स्थानादिति शेषः । मीलनाय संकोचाय खलु भवति । यत्र स्थाने तेजस्तिष्ठति सत्प्रकाशन इति स्थितिः । यतो गच्छति न तत्प्रकाशते । अतः सूर्यापाये खं प्रसुप्तमिवेति युक्तोत्प्रेक्षेति भावः । अस्यार्थस्य तेजोमात्रसाधारण्येऽपि महति स्फुटमिति महद्रहणं कृतम् ॥ ४३ ॥

 संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् ।
 प्राक्तथेयमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥४४॥

 संध्ययेति ॥ संध्ययाप्यस्तशिखरेऽस्ताद्रिशृङ्गे समर्पितं निहितं वन्द्यं रवेर्वपुरनुगतमन्वगामि, असंयुतं रविमन्वगादिति भावः । युक्तं चैतदित्याह-प्राक्पूर्वमुदये तथा तेन प्रकारेण पुरस्कृताग्रतः कृता । पूजिता चेति गम्यते । प्रातः सूर्योदयात्प्रगेव संध्यागम इति हि प्रसिद्धम् । इयं संध्या तं रविमापद्यम्तसमये कथं नानुयास्यति, अनुयास्यत्येवेत्यर्थः । संपदसंपदोस्तुल्यरूपमेव साधूनामिति भावः ॥४४॥

 रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि! भान्त्यभूः।
 द्रक्ष्यसि त्वमिति मांध्यवेलया वर्तिकाभिरिव साधुवर्तिताः ॥४५॥

 रक्तेति ॥ हे कुटिलकेशि ! 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (पा. ४|१|५४ ) इति ङीप् । अमूः पुरोगता रक्ताः पीताः कपिशाश्र रक्तपीतकपिशाः, नानावर्णा इत्यर्थः । चार्थे द्वन्द्वः । न तु 'वर्णो वर्णेन' (पा. २।१।६९ ) इति तत्पुरुषः । सामानाधिकरण्याभावात् । पयोमुचां कोटयोऽश्रयः । 'स्यात्कोटिरश्रौ चापाग्रे संख्याभेदप्रकर्षयोः' इति विश्वः । त्वं द्रक्ष्यसीति हेतोरनया सांध्यवेलया, संध्ययेत्यर्थः । 'संधिवेलया' इति क्वचित्पाठः। वर्तिकाभिश्रित्रशलाकाभिः साधुवर्तिता उत्पादिताश्र भान्ति ॥ ४५ ॥

 सिंहकेसरसटासु भूभृता पल्लवप्रसविषु द्रुमेषु च ।
 पश्य धातुशिखरेषु चात्मना संविभक्तमिव सांध्यमातपम् ॥४६॥

 सिंहेति ॥ सिंहानां केसराणि स्कन्धरोमाणि तान्येव सटा जटास्तासु । 'सटा जटाकसरयोः' इति विश्वः । अथवा 'सटा'शब्देन समूहो लक्ष्यते, अन्यथा

पानरुक्यात् । पल्लवप्रसविषु पल्लववत्सु द्रुमेषु च तथा धातुशिखरेषु च भूभृता-