पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
[ सर्गः १३
कुमारसंभवे

 घनेति ॥ अथो अनन्तरमाद्ययोर्हरिहरयोर्वृद्धो महान्विधिर्ब्रह्मा। घनः सान्द्रः। 'धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनाद्येषु विस्तारे लोह- मुद्गरे । त्रिषु सान्द्रे च दृष्टार्थे' इति मेदिनी । यः प्रमोदो हर्षम्तेन निमित्तेन यदश्रु नेत्रपयम्तेन तरंगितानि संजाततरंगाणि । 'तारकादिभ्य इतच्' (पा. ५।२।३६) अक्षीणि नेत्राणि येषां तैः, हर्षवशादुद्गताश्रुभिरित्यर्थः । तथा प्रचुरप्रसादैरधिक- प्रसन्नतायुक्तैश्चतुर्भिर्मुखैः पट्सु शिरःसु मध्ये षडाननं कुमारं चुचुम्बे पस्पर्श । इति चित्रं विस्मयः । चतुर्भिर्मुखैः पण्णां मुखानां यौगपद्येन स्पर्शासंभवात् । परिहारस्तु प्रत्येकं षट्सु चतुर्भिश्चुम्बनेन संधेयः ॥ १९ ॥

 तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
 आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्धसंघाः ॥२०॥

 तमिति ॥ गन्धर्वा देवगायकाः, विद्याधराः, सिद्धाश्च देवविशेषाः, तेषां संघाः समुदायाः कर्तारः तं त्रिपुरासुरस्यारेः शिवस्य कुमारं पुत्रं मुदा प्रीत्या निमित्तेन साधु साध्वित्यभितः संमुखत्वेन प्रशस्य स्तुत्वा 'हे वीर ! त्वं जय शत्रोः सकाशा- ज्जयं प्राप्नुहि' इत्येवंभूतया वाचानन्दयन्नानन्दितमकुर्वन् ॥ २० ॥

 दिव्यर्षयः शत्रुविजेष्यमाणं तमभ्यनन्दन्किल नारदाद्याः ।
 निरुञ्छनं चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च ।। २१ ।।

 दिव्यर्षय इति ॥ नारदाद्या नारदप्रमुखा दिव्या दिवि भवा ऋषयः । 'द्युप्रागपागुदक्र्-' (पा. ४।२।१०१) इति यत् । शत्रुं तारकं विजेष्यमाणं जेष्यन्तं तं कुमारमभ्यनन्दंस्तुष्टुवुः किल । अथानन्तरं चामीकरीयैः सौवर्णैरुत्तरीयैर्वस्त्रैः । तथा निजैर्वल्कलैश्च निरुञ्छनं बन्धुतायै वासःपरिवर्तनं चक्रुः । निरुञ्छनं पूर्वमेव निर्णीतम् ॥ २१ ॥

 ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः ।
 उत्सेहिरे स्वर्गमनन्तशक्तेर्गन्तुं वनं युथपतेरिवेभाः॥ २२ ॥

 तत इति ॥ ततोऽनन्तरं शक्तिरायुधविशेषस्तां धरतीति तथोक्तस्य कुमारस्य ।

पाठा०-१ तस्य वचो वरार्थम्. २ समभ्यनन्दन् ; तदभ्यनन्दन्. ३ निर्म-

ञ्छनम् ; निरुच्छनम्. ४ नववल्कलैः. ५ उत्त्यजन्तः. ६ अनन्तशक्त्यै. ७ अभिपृष्ठे.