पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १४-१९]
२७९
कुमारावलोकनेन देववृन्दस्य हर्षजननम्

सारो यस्याः । सुतरां महसस्तेजसः प्रसारो मण्डलं यस्याः, अतितेजस्विनीत्यर्थः । खर्लोकलक्ष्म्या या विपदा तस्या अवहा, किं तु सुखदेत्यर्थः । तथारेः प्रतिकूलस्य शिरः शीर्षं हरन्ती । असौ मम शक्तिरायुधं वो युष्माकं मुदं प्रीतिं दिशताद्दत्तात् । आशिषि लोट् ॥ १६॥

 इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य ।
 सर्वं शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं वचसाननन्द ।। १७ ॥

 इतीति ॥ दैत्यवधाय दैत्यवधं कर्तुं युद्ध उत्सुकमानसस्योत्कण्ठितचेतसोऽन्ध- कारातिसुतस्य शिवपुत्रस्य कुमारस्य संबन्धिना इति पूर्वोक्तेन वचसा सर्वं गीर्वाण- वृन्दं देवसमूहः शुचि शुद्धं स्मेरं समन्दहासं मुखारविन्दं मुखकमलं यस्य तथाभूतं सत् आननन्द जहर्ष ॥ १७ ॥

 सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्गसंफुल्लेसहस्रनेत्रः ।
 तस्योत्तरीयेण निजाम्बरेण निरुञ्छनं चारु चकार शक्र:।।१८।।

 सान्द्रेति ॥ सान्द्रप्रमोदाद्धनानन्दाद्धेतोः पुलकै रोमाञ्चैरुपगृढ आश्लिष्टः । 'पुलकः कृमिभेदेऽश्मभेदे च मणिदोषके । रोमाञ्चे हरिताले गजात्तपिण्डे च गन्धके' इति मेदिनी । तथा सर्वेष्वङ्गेषु संफुल्लानि सहस्रनेत्राणि यस्य । यतः सहस्त्राक्षस्तथाभूतः शक इन्द्रस्तस्य कुमारस्योत्तरीयेण संव्यानेन । 'संव्यानमुत्तरीयं स्यात्' इत्यमरः । तथा निजाम्बरेण निरुञ्छनं परिवर्तनं चारु चकार, भ्रातृभावा- यान्योन्यवस्त्रग्रहणं चक्रतुरित्यर्थः । तदुक्तं मेदिन्याम्-'निरुञ्छनं बन्धुतायै वाससः परिवर्तनम्' इति । लोकेऽपि भ्रातृतायै परस्परस्योष्णीषबन्धनव्यवहार- स्तद्वदत्रापीति । अनुशासने सामान्यतो वासोग्रहणेन प्रकृत उत्तरीयग्रहणं संगच्छते। लोकव्यवहारस्तु संप्रदायसिद्धः । उष्णीषे विशेषश्रैष्ठ्योपलम्भ एव व्यवहारमूल- मिति मन्तव्यम् ॥ १८॥

 धनप्रमोदाश्रुतरंगिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः ।
 अथो चुचुम्बे विधिराद्यवृद्धः षडाननं षट्सु शिरःसु चित्रम् ॥१९॥

पाठा०-१ बद्धोत्सवमानसस्य. २ सुविस्मेर. ३ आननन्द. ४ सान्द्रप्रमोदः. ५ संलग्न. ६ निर्मञ्छनम् ; निरूहणम् , निरुञ्छनम्. ७ परिप्लुताक्षै:. ८ प्रमोद.

९क्रमाञ्चुचुम्बे; अथो अचुम्बद्विधिरादिवृद्धः. १० मुखेषु. ११ हर्षात्. १२ सुसाधु.