पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ अध्यायः ॥ काव्यालंकारः । ९९ उभयोरिति । उभयोः प्रस्तावादुपमानोपमेययोः समानं साधारणवमेकमर्द्वितीयं गुणादि गुणसंस्थानादि यथा येन प्रकारेणैकत्रोपमाने सिद्धं प्रतीतम्, तथा तेनैव प्रकारेणान्यत्रार्थं उपमेये साध्यत इत्येवं प्रकारोपमा । सा च त्रेधा-वाक्योपमा, समासोपमा,प्रत्ययोपमेति । अभिधानस्य मानभेदेनेत्यत्र चैकत्रेति सामान्योक्तावपि ‘प्रसिद्धमुपमानमू' इति न्याया- दुपमानं लभ्यते । अथैतद्भेदत्रयमाह- वाक्योपमात्र षोढा तत्र त्वेका प्रयुज्यते यत्र । उपमानमिवादीनामेकं सामान्यमुपमेयम् ॥ १ ॥ वाक्येति । अत्रोपमायां वाक्योपमा तावत्षट्प्रकारेति । एतच्च ब्रुवता वाक्योपमा प्रथमेत्युक्तं भवति । तेन पृथगुद्देशाभावो न दोषाय । तत्र तासु षट्सु मध्यादियमेका प्रथमा, यस्यामुपमानः प्रयुज्यते । तथेवादीनामिववत्सदृशयथातुल्यनिभादीनां साम्यवाच- कानां मध्यादेकम् । तथा सामान्यमुपमानोपमेययोः साधारणधर्माभिधायकं पदम् । तथोपमेयमिति चतुष्टयम् । तुशब्दो लक्षणान्तरेभ्योऽस्य विशेषणार्थः । ननु यदीवादी नामेकमेव प्रयुज्यते कथं तर्हि ‘दिने दिने सा परिवर्धमाना’ इत्यादिष्वनेकेषां प्रयोगः। सत्यम् । औपम्यानामनेकत्वात्। अत्र ह्यनेकं कारकमुपमानोपमेयतया निर्दिष्टम् । यथा- ‘ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यत्रसानिव ॥' अत्रेवादीनामपि बहूनां प्रयोगो न्याय्यः । एवं हि परिपूर्णमौपम्यं भवति । यत्र तु बहू नामष्यौपम्य एक एवेवादिः प्रयुज्यते तत्र गतार्थत्वादप्रयोगो बोद्धव्यः । यथा—सा भूधराणामधिपेन तस्याम्’ इत्यादौ । अत्र हि नीताविव मेनायाम्; उत्साहगुणेनेव नगेन संपदिव पार्वती जनितेति व्याख्यानम् । इत्यलं विस्तरेण ।। उदाहरणमाह - कमलमिव चारुवदनं मृणालमिव कोमलं भुजायुगलम् । अलिमालेव सुनीला तवैव मदिरेक्षणे कबरी ॥ ६ ॥ कमलमिति । अत्र कश्चित्कामी मुखादिकं वस्तु सम्यक्स्वरूपतः कमलादिगतचारु त्वादियुक्तं प्रतिपादयितुं वस्त्वन्तरं कमलादिकं तत्समानत्वात्प्रायुक्तवानित्यौपम्यम् । तथोभयोः कमलमुखयोः समानमेकं चारुत्वं यथैकत्र कमले सिद्धं तथोपमेये मुखे साध्यत इत्युपमालक्षणम् । तथा कमलमुपमानम्, इवशब्दः, चावृिति सामान्यम्, वदनमुपमेयम्, इति चतुष्टयं समस्तमिति वाक्योपमालक्षणम् । एवमन्यत्रापि लक्षणयोजना कर्तव्या । अथ द्वितीयामाह इयमन्या सामान्यं यत्रेवादिप्रयोगसामथ्र्थ्रत् । गम्येत सुप्रसिद्धं तद्वाचिपदाप्रयोगेऽपि ॥ ७ ॥ इयमिति । इयमन्या द्वितीया वाक्योपमा, यस्यां सामान्यं साधारणो धर्मस्तद्वा-