पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ कंठंयमालि । नाकुसुमस्तरुरस्मिथुद्याने नामधूनि कुसुमानि । नालीनालिकुलं मधु नामधुरक्षणमलिवलयम् ॥ १११ ॥ नेति । अत्र निषेधरूपेण तर्वादिकार्यपरंपरा यथोत्तरकुसुमादिविशेषणा निहितेति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः सप्तमोऽध्यायः समाप्तः । । अष्टमोऽध्यायः । वास्तवं सप्रभेदमाख्यथेदानीमौपम्यमाह सम्यक्प्रतिपादयितुं स्वरूपतो वस्तु तत्समानमिति । वस्त्वन्तरमभिदध्याद्वक्ता यस्मिस्तदौपम्यम् ॥ १ ॥ सम्यगिति । यत्र प्रस्तुतं वस्तुस्वरूपविशेषेण सम्यगनन्यथा प्रतिपादयितुं वस्त्वन्त रमप्रस्तुतं वक्ताभिदध्यात्तदौपम्यं नामालंकारः । ननु वस्त्वन्तरोक्या कथं वस्तुस्वरूपं विशेषतः प्रतिपाद्यत इत्याह--तत्समानमिति । इतिहेतौ । यतो वस्त्वन्तरं प्रकृतवस्तु- सदृशमतस्तेन तत्सम्यक्प्रतिपाद्यते । ‘सर्वः स्वं स्वं रूपम्’ (७७) इत्यादिना सम्यक्त्वे लब्धे सम्यग्ग्रहणं विशिष्टसम्यक्त्वर्थम् । अभिदध्यादिति । कर्तृपदेनैव वक्तरि लब्धे व- तृप्रहणं रक्तविरक्तमध्यस्थादिवक्तृविशेषप्रतिपयर्थम् । तेन यो यादृशो वक्ता येन स्वरूपेण वक्तुमिच्छति तादृशमेव वस्वन्तरमभिदध्यात्तदौपम्यम् । रक्तो यथा ‘अमृतस्येव कुण्डानि सुखानामिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥' इत्यादि । विरक्तो यथा—‘एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः । इत्यादि । मध्यस्थस्तु स्वरूपमात्रं वक्ति यथा—‘दर्शनादेव नटवद्धरन्ति हृदयं स्त्रियः । सुविश्वस्तेऽप्यविश्वस्ता भवन्ति च चरा इव ॥’ यत्रोपमानोपमेयभावः श्रौतः प्रातीतिको वा तदौपम्यमिति तात्पर्यम्। तेन संशयादयोऽप्येतद्वेदा एवेति ।। सामान्यमभिधाय तद्वेदानाह उपमोत्प्रेक्षारूपकमपहुतिः संशयः समासोक्तिः । मतमुत्तरमन्योक्तिः प्रतीपमर्थान्तरन्यासः ॥ २ ॥ उभयन्यासभ्रान्तिमदाक्षेपप्रत्यनीकदृष्टान्ताः । पूर्वसहोक्तिसमुच्चयसाम्यस्मरणानि तद्वेदाः ॥ ३ ॥ डंपमेति । उभयेति । तस्यौपम्यस्योपमादयं एते एकविंशतिभेदाः । पैथोद्देशस्तथा लक्षणमिति पूर्वमुपमालक्षणमाह उभयोः संमानमेकं गुणादि सिद्धं भवेद्यथैकत्र । अथेऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा ॥ ४ ॥