पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः] | काव्यालंकारः । वाक्यार्थान्दीपयति प्रकाशयतीत्यन्वर्थबलादादिदीपकं मध्यदीपकमन्तदीपकं चेति त्रिवि- धम् । एवं चैतत्षोढा घड़िधं भवेदिति ॥  तदुदाहरणानि यथाक्रममाह-

  कान्ता ददाति मदनं मदनः संतापमसममनुपशमम् ।।
  संतापो मरणमहो तथापि शरणं नृणां सैव ॥ ६६ ।।

 कान्तेति । इदमादिक्रियादीपकम् ।।

तारुण्यमाशुमदनं मदनः कुरुते विलासविस्तारम् । स च रमणीषु प्रभवञ्जनहृदयावर्जनं बलवत् ।। ६७ ॥ तारुण्यमिति । इदं मध्यक्रियादीपकम् ।। । नवयौवनमङ्गेषु प्रियसङ्गमनोरथो हि हृदयेषु । अथ चेष्टासु विकारः प्रभवति रम्यः कुमारीणाम् ॥ ६८ ॥ नवेति । इदमन्तक्रियादीपकम् ।। निद्रापहरति जागरमुपशमयति मदनदहनसंतापम् ।। जनयति कान्तासंगमसुखं च कोऽन्यस्ततो बन्धुः ॥ ६९ ॥ निद्रेति । इदमादिकर्तदीपकम् ॥ संसयति गात्रमखिलं ग्लपयति चेतो निकाममनुरागः । जनमसुलभं प्रति सखे प्राणानपि मङ्ख मुष्णाति ॥ ७० ॥ संसयतीति । इदं मध्यकढ़दीपकम् ।। दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते । त्रस्यन्ति वेपमानाः शयने नवपरिणया वध्वः ॥ ७१ ॥ दूरादिति । इदमन्तकर्तदोपकम् ॥ एवं कर्मादिषु कारकेषूदाहरणानि द्रष्टव्यानि । अस्य च दीपकस्य प्रायोऽलंकारान्तरैः समावेश इष्यते । तथा ह्याद्ययोरुदाहरणयोः का- रणमालायाः सद्भावः । तृतीयचतुर्थपञ्चमेषु वास्तवसमुच्चयस्य । षष्ठे जातेः ॥ अथ परिकरः- साभिप्रायैः सम्यग्विशेषणैर्वस्तु यडिशिष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ७२ ॥ |सैति । यहूव्यगुणक्रियाजातिलक्षणं चतुर्विधं वस्तु साभिप्रायैर्विशेषणैः सम्यग्विशि- ष्येत स इत्यमुना प्रकारेण चतुष्प्रकारः परिकरालंकारो भवति । साभिप्रायग्रहणं वस्तु- स्वरूपमात्राभिधानकल्पितानां विशेषणानां निरासार्थम् । यथा---'न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।' इत्यत्र भूत्वचा कुअरविन्दुशोणाः इति विशेषणं १२