पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<० काव्यमाला। अथ सदसतोर्योगः कमलवनेषु तुषारो रूपविलासादिशालिनीषु जरा । रमणीष्वपि दुश्चरितं धातुर्लक्ष्मीश्च नीचेषु ॥ २६ ॥ कमलेति । सुगममेव योजनम् ।। प्रकारान्तरमाह व्यधिकरणे वा यस्मिन्गुणक्रिये चैककालमेकस्मिन् । उपजायेते देशे समुच्चयः स्यात्तदन्योऽसौ ॥ २७ ॥ व्यधिकरण इति । वाशब्द एवशब्दार्थे भिन्नक्रमः । ततश्च यस्मिसन्मुच्चये गुणक्रिये भिन्नाधिकरणे एकस्मिन्देशे समकालमुपजायेते असौ समुच्चयस्तदन्यः । ततः पर्वसमुच्च यादपर इत्यर्थः । गुणक्रिये एव व्यधिकरणे इत्यवधारणं तु गुणक्रियाधिकरणयोर्वस्तुनो दंशाधिकरणमेकमेवेति कृत्वा । निदर्शनमाह विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ २८ ॥ विदलितेति । अत्र नैर्मल्यगुणस्य बलमाधारो मालिन्यस्य तु खलमुखानीति । चश- ब्दावैककालत्वसूचनायै । एवं गुणसमुच्चयः । क्रियासमुच्चयस्तु यथा दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २९ ॥ दैवादिति । अत्र वियोगक्रिया वियोगिनि स्थिता, समुपागमनक्रिया तु वर्षाकाले । अथ जातिः संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः ॥ ३० ॥ संस्थानेति । यस्य पदार्थस्य यत्संस्थानादि यादृशं भवति तस्य यदनन्यथा तेनैव प्रकारेण कथनं सा जातिरिति यागः । यच्छब्दस्तु सर्वनामत्वात्सामान्येन सर्वसंग्रहार्थः। विशेषरूपतया हि तत्संस्थानादि कथयितुमानन्यान्न शक्यते । अनुक्तं तर्हि कथं कविना शतव्यमित्याह-लोके चिरप्रसिद्धमिति । यद्यपि पुराणादिषु किंचिदुक्तं तथापि लोक रूढिवशात्सम्यक्तदवगम इति । तत्र संस्थानं स्वाभाविकं रूपम् । यथा-‘एतत्पूतन- चक्रमक्रमकृतप्रासार्धमुक्तैर्मुकानुपुष्णत्परितो नृमांसविघसैराघर्घरं क्रन्दतः । खर्जुरङम दनजङ्गमसितत्वग्बद्धविष्वक्ततनयुग्रन्थि घनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥’ इत्यादि। अवस्थानं स्थानकादि । यथा -‘स दक्षिणापाङ्गनिविष्टमुष्टिं नतसमाकुञ्चितसव्यपादम् ।