पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
काव्यमाला ।

प्रयुज्यमानं संशयं कुर्वीत । अथ किमेतत् “शब्दप्रवृत्तिहेतौ सत्यपि’ (६।६) इत्यनेनासमर्थ- लक्षणेन न परिहृतम् । नेत्युच्यते । यतो यदेकत्र रूढमन्यत्र तु तदर्थसद्भावेऽपि न प्रयो गार्हं तत्तस्य विषयः । इह तु यत्कचिदपि न रूढं युक्त्या च तदर्थवाचकत्वं तदेकत्रार्थ- ऽनुचितमिति स्फुट एव भेदः । तथा 'निश्चीयते न यस्मिन्’ (६।७)इत्यस्याप्ययमविषयः। यतस्तत्र विशेषणपदं संशयकारि निषेध्यम् । अथासंशयमाह पदमपरमप्रतीतं यद्यौगिकरूढशब्दपर्यायैः । कल्पितमर्थे तस्मिन्यथाश्वयोषिन्मुखार्चिष्मान् ॥ १३ ॥ पदमिति । अपरमिदं पदमप्रतीतं यद्यौगिकानां संबन्धजानामथ च रूढानां संज्ञात्वेन प्रसिद्धानां पर्यायैस्तस्मिन्विवक्षितेऽर्थे कल्पितमभिधानतया प्रयुक्तम् । यथा वडवामुखा- नलशब्दे वाच्येऽश्वयोषिन्मुखार्चिष्मानिति शब्दः । स ह्यश्विमुखसादृश्यादौर्वाग्नौ यौगिको रूढिशब्दश्च । तत्र वडवापर्यायोऽश्वयोषिदिति, अनलस्यार्चिष्मानिति । मुखशब्दः स्व रूपेण प्रयुक्तः । केचित्वश्वयोषिद्वदनवहिरिति पठन्ति । एवंविधं पदं विवक्षितमर्थं नि- र्विकल्पमेव प्रत्यापयति । केवलं न तथा रूढमिति दुष्टम्। यथा माघस्य-'तुरङ्गकान्तामु खहव्यवाहज्वालेव भित्त्वा जलमुल्ललास'। अल्पश्चायं दोषः,महाकविभिरपि प्रयुक्त त्वात् । अथ किमेतावसमर्थाप्रतीतदोषाववाचकत्वेन परिहृतौ। नेत्युच्यते । यतो यत्किंचिदपि तमर्थं नाभिधत्ते तदवाचकम् । इह तु पदमर्थाभिधायकमेव । केवलं पदान्तरसंनिधाना दसामर्थ्यमरूढ्या चाप्रतीतत्वमागतमिति । अथ विसंधिपदमाह- यस्यादिपदेन समं संधिर्न भवेद्भवेद्विरुद्धो वा । तदिति विसंधि स इत्थं मन्थरया भरत आहूतः ॥ १४ ॥ यस्येति । यस्य द्वितीयपदस्यादिपदेन सार्धं संधिः संधानं न भवेद्भवन्नपि विरुद्धार्थ त्वाविरुद्धो वा भवेत्तत्पदं विसंधि। विरुद्धार्यो विशब्दः । ननूभयाश्रयत्वात्संधेः किमिति द्वितीयपदमेव विसंधि भण्यते, न त्वाद्यम्। सत्यम् । यतो द्वितीयपदे सत्येव विसंधि- त्वमायाति । ततस्तस्य तदुक्तम्। उभयत्रोदाहरणमाह-स इत्यादि । स भरतो मन्थ- रया कुब्जयेत्थमाहूत आकारितः । स इत्थमिति, भरतं आहूत इति चासंध्युदाहरणम् । मन्थरयाभरत इति तु विरुद्धसंधिनिदर्शनम्। संहितापाठे सति पदभङ्गवशान्मन्थरे याभे मैथुने रत इति प्रतीपोऽर्थो गम्यते । नन्वेवं विसंधिपदे दूषिते सति सर्वमेव पूर्वकविलक्ष्यं दूषितं स्यादित्याशङ्कय वि- शेषमाह तत्रासत्संधि पदं कृतमसकृदयुक्तितो भवेहुष्टम् । दूरं तु वर्जनीयं विरुद्धसंधि प्रयत्नेन ॥ १५ ॥