पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६ अध्यायः]
६३
काव्यालंकारः ।

नन्वर्थस्य शब्दो वाचको न त्वमिनयः, तत्कथं तेनार्थविशेषनिश्चयः क्रियत इत्याह-- शब्दानामत्र सदानेकार्थानां प्रयुज्यमानानाम् । निश्र्वीयते हि सोऽर्थः प्रकरणशब्दान्तराभिनयैः ॥ ९ ॥ शब्दानामिति । हि यस्मादत्र काव्येऽनेकार्थानां शब्दानां प्रयुज्यमानानां स विव- क्षितोऽर्थः प्रकरणेन प्रस्तावेन शब्दान्तरसंनिधानेन वाभिनयेन वा निश्र्चीयते । तत्र प्र- करणे यथा -‘महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्' । इत्यत्र हिम- वानेव महीभृदुच्यते । शब्दान्तरेण यथा—‘कोपादेकतलाघातनिपतन्मत्तदन्तिनः। हरेर्ह- रिणयुद्धेषु कियान्व्याक्षेपविस्तरः ।’ अत्र दन्तिहरिणशब्दसंनिधानार्त्सिह एव हरिनि- श्र्चीयते । अभिनयने त्वर्थविशेषप्रतीतावुदाहरणं सूत्रकार एव दास्यति । यतः प्रकरणश- ब्दान्तरे प्रसिद्धत्वादुपमाने । अभिनयस्तु प्रस्तुतत्वादुपमेयः । तथा ताभ्यां विवक्षितार्थ- निश्र्चयस्तथाभिनयेनापीत्यर्थः ।| तदेवोदाहरणमाह-- सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि । एतावतीमवस्थां याता दिवसैरियन्मत्रैः ॥ १० ॥ सेति । अत्रेयन्मात्रैतावच्छब्दौ महति स्वल्पे च वर्तॆते । ततोऽभिनयेन विशेषप्रती- तिर्यथा-हे सुन्दर सा सुतनुस्तव विरहे इयन्मात्रलोचना । प्रसृत्यभिनयेन विशाललो- चनेति निश्र्चीयते । तथैतावतीमवस्थां यातेति । अत्रोर्ध्विकृतकनिष्ठिकाङ्गुल्या कृशत्वं प्रतीयते । दिवसैरियन्मात्रैरित्यत्र पञ्चाङ्गुलिदर्शनेन स्वल्पत्वं चेति ॥ अथाप्रतीतमाह-- युक्त्या वक्ति तमर्थं न च रूढं यत्र यदभिधानतया । द्वेधा तदप्रतीतं संशयवदसंशयं च पदम् ॥ ११ ॥ युक्त्येति । तदप्रतीतं यद्युक्त्या गुणक्रियायोगेन तं विवक्षितमर्थे वक्प्तिपादयति । अथ च तत्रार्थाभिधानतया वाचकत्वेन न रूढं न प्रसिद्धं तच्चाप्रतीतं द्वेधा । कथं सं- शयवदसंशयं वेति ॥ तत्र संशयवद्यथा--- साधारणमपरेष्वपि गुणादि कृत्वा निमित्तमेकस्मिन् । यत्कृतमभिधानतयार्थे संशयवद्यथा हिमहा ॥ १२ ॥ साधारणमिति । यत्पदं गुणक्रियादिनिमित्तमुद्दिश्यान्येष्वप्यर्थेषु साधारणं सदेकस्मि- न्विशिष्टेऽर्थेऽभिधानतया संज्ञात्वेन कृतं न तु विशेषणत्वेन तदनेकार्थतयैकत्र निश्चयानु- त्पादनात्संशयवदप्रतीतम् । उदाहरणं यथा–हिमहेति । अत्र हिमहननलक्षणया क्रिय- यैतत्पदं रवौ वह्नौ च साधारणम् । अभिधानतया चैकत्रापि न रूढम् । अत एकत्र