पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
काव्यमाला ।

अथ य एते मात्राच्युतादयस्ते किमलंकराः उत नेत्याशङ्कयाह मात्राबिन्दुच्युतके प्रहेलिका कारकक्रियागूढे । प्रश्नोत्तरादि चान्यक्रीडामात्रोपयोगमिदम् ॥ २४ ॥ मात्रेति । च्युतकशब्दो गूढशब्दश्चोभयत्र संबध्यते । ततश्च मात्राच्युतकबिन्दुच्युत कप्रहेलिकाकारकगूढ क्रियागूढानि प्रश्नोत्तरादि । चः समुच्चये । अन्यत्पूर्वालंकारेम्यो व्यतिरिक्तं तक्रीडामात्रोपयोगम् । मात्रग्रहणेनाल्पप्रयोजनतां सूचयति । अल्पप्रयोजन त्वादेवालंकारमध्ये न संगृहीतम् । काव्येषु च दर्शनाद्वक्तव्यमिति । तल्लक्षणं यथाक्रममाह मात्राबिन्दुच्यवनादन्यार्थत्वेन तच्युते नाम । स्पष्टप्रच्छन्नाथ प्रहेलिकाव्याहृतार्था च ॥ २१ ॥ प्रच्छन्नत्वाद्भवतस्तद्ढे कारकक्रियान्तरयोः ।

प्रक्षानं च बहूनामुत्तरमेकं भवेद्यत्र ॥ २६ ॥

प्रश्नोत्तरं तदेतद्यस्तसमस्तादिभिर्भवेद्वहुधा । भेदैरनेकभाषाः 'च भिद्यते ॥ २७ ॥ मात्राबिन्दुच्यवनदिति । प्रच्छन्नत्वादिति । प्रश्नोत्तरमिति । मात्रायाः स्वरस्य, तथा बिन्दोरनुस्वारस्य च्यवनाद्वेशाद्धेतोरन्यार्थत्वेन भिन्नाभिधेयत्वेन तच्युते मात्राबिन्दुच्युते भवतो नाम । प्रहेलिका द्विधा । स्पष्टप्रच्छन्नाथुव्याहृतार्था च। तत्र स्पष्ट: पदारूढ त्वात्प्रच्छन्नश्च प्रश्नवाक्य एवान्तर्गतत्वेन भ्रमक्रारित्वादर्थो यस्याः स तथाविधा । तथा साधारणविशेषणोपादानादेवाधिगतत्वेनाव्याहृतः साक्षादनुक्तोऽथ यस्यां सा तथाभूता द्वितीया । तथा कर्तादिकारकाणां गूढत्वादप्रकटत्वात्कारकगूढम् । क्रियापदानां तु प्र-- च्छन्नत्वाक्रियागूढम् । तथा प्रश्नोत्तरमेतद्यत्र बहूनां प्रश्नानां वचनस्यातन्त्रत्वादेकर द्वयोवैतमेवोत्तरं भवेत् । एतच्च प्रश्नोत्तरं व्यस्तसमस्तादिभिः, आदिग्रहणाद्तप्रत्यागतै कालापकप्रतिलोमानुलोमादिभिभेदैर्बहुधा भवेत् । तथैकभाषत्वेनानेकभाषवेन च भिद्यते । अधुनैतेषामेव यथाक्रममेकैकमुदाहरणं दिक्प्रदर्शनार्थमाह- नियतमगम्यमदृश्यं भवति किल त्रस्यतो रणोपान्तम् । कान्तो नयनानन्दी बालेन्दुः खे न भवति सदा ॥ २८ ॥ नियतेति । त्रस्यतो बिभ्यतो नरस्य । किलेति सत्ये । रणोपान्तं समरनिकटं नियतं निश्चितमगम्यमप्राप्यमदृश्यमनवलोकनीयं भवति । इत्येकवाक्यार्थः । अत्र मात्रया ककार गतेकाररूपया च्युतयान्य एवार्था भवति । मात्रच्युतके च सर्वत्र मात्रापगमेऽप्यक्रारा न्तत्वावस्थितिः । उच्चारणार्थत्वादकारस्य। तत्रान्योऽथ यथा-कलत्रस्य दराणां तो