पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५ अध्यायः]
५७
काव्यालंकारः ।

तथा यान्ति गच्छन्तीति या अभियोगिनः, अस्तः परित्यक्तो नामो नतियैस्तेऽस्त- नामा, याश्च तेऽस्तनामाश्च ते च तेऽरयश्च शत्रवश्च तान्पातयन्ति नाशयन्तीति यास्तना- मारिपाताः । यदि वा समशब्दः सर्वनामसु । ततः समरणेषु सर्वसमरेषु महितः पूजित उपायो येषां ते च तेऽस्तनामारिपाताश्चेति समासः । तथा वने रतिर्येषां ते वनरतयो मुनयस्तान्सरन्ति जिघांसयाभिगच्छन्तीति वनरतिसरा राक्षसादयस्तान्मीनन्तीति कर्म- ण्यणि वनरतिसरमायाः । कथं नेदुः । मापसारम् । मा प्रतिषेधे ततश्वविद्यमानोऽपसा- रश्छेदो यत्र कर्मणि तन्मापसारम् । किं कृत्वा नेदुः। अमरैर्देवैस्तता विस्तारिता दत्ता या वराली वरपरम्परा तया मानं पूजां गर्व वासाद्य प्राप्य । तथा रणमहिम्ना युद्धमाहात्म्येन तता व्याप्ता आशा दिशो यैस्ते तथोक्ताः । कदा नेदुः । धीरभावे धैर्येऽसिना खट्टेन राते दत्ते सति ॥ अस्माच्छोकादेकाक्षरव्यवधानेन द्वयोर्दूयोश्च विपर्ययपाठेनायं लोको नियति । यथा-- सरमणहिमतोयापास्तमानारितापा वरनतिरसमावायानमारा परं सा । अरमत बत रामा लीनसामाद्यदूने रमणहितमताधीशार भासितेरा ॥ २३ ॥ सरमणेति । काचिन्मानिनी प्रसन्नात्र वर्धेते-सा रामा युवतिरधीशारवे दयितव- चसि परमतिशयेनारमत प्रीतिं कृतवती । बत विस्मये। चित्रं मानिन्यपि प्रसन्ना यत् । कीदृशी । रमणो दयितः स एव संतापापहारित्वाद्धिमतोयं नीहारजलम्, सह तेन वर्तते या सा सरमणहिमतया । अत एवापास्तो निरस्तो मानारितापे गर्वशत्रुजनितोपतापो यया सापास्तमानारितापा । तथा वरा श्रेष्ठा नतिर्मानपरित्यागेन प्रणतिर्यस्याः सा वर- नतिः । यद्वा वरे भर्तरि नतिर्यस्याः । तथा असमा सर्वोत्कृष्टा । तथा अवति रक्षत्या त्मानं प्रियं यवा । न विद्यते यानं गमनमस्येययामः स्थिरो मारः कामो यस्याः साया नमारा । तथा लीनं संबद्धं साम कोमलवचनं यस्याः सा लीनसामा। प्रियभाषिणीत्यर्थः। कीदृशेऽधीशारवे । आद्यः प्रधानभूतः, दून उपतप्तो गद्दः, आद्यश्च दूनश्च तत्राद्यदूने । रामा कीदृशी । रमणस्य प्रियस्य हिता च मता च। अनुकूलत्वादिरैयर्थः । तथा भा सिता शोभिता इरा वाणी यस्याः सा भासितेरा । मधुरवागित्यर्थः । अस्माच्छोकात्तथैव पूर्वश्लोको नियार्ति । एवमन्येऽपि चित्रप्रकारा महाकाव्येभ्योऽवधार्याः। सर्वेषु स्वरूप- दर्शनं कर्तुमशक्यमानन्यादिति । एतेषु यमकश्लेषचित्रोदाहरणेषु व्याख्यानान्तराण्यपि महामतिकृतानि दृष्टानि, परमेकैकमेव चावत्येकैकमेव लिखितम् । यत उक्तं सु धीभिः—व्याख्यानमनेकविधं लिङ्गमबोधस्य धूम इव वहेत्य्:। स्पष्टं मार्गमजानन्स्पृशत्य नेकान्पथो मुह्यन्’ इति ।।