पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
काव्यमाला ।
भाषेति । अयं पूर्वोक्तश्लेषो भाषाश्लेषरहितः प्रायो बाहुल्येनान्यमप्यलंकारमर्थविषयं व्यतिरेकादिकं स्पृशति । श्लेषस्याप्यौपम्यादिभिः सह संकरो भवतीत्यर्थः । अपिशब्दो विस्मये । प्रायोग्रहणमसाकल्यप्रतिपादनार्थम् । अन्यमलंकारं स्पृशति परं न सर्वमेवेत्यर्थः।। तत्रापि सुतरामतिशयेन वैचित्र्यं रम्यत्वमयं श्लेष उपमासमुच्चययोर्धत्ते धारयति । उपमासाहचर्यात्समुच्चयोऽप्यत्रौपम्यभेदो गृह्यते ।
नन्वत्र श्लेषवाक्यद्वये शब्दमात्रं श्लिष्टं भवति, न त्वर्थ इति साम्याभावस्ततश्च कथ

मुपमासमुच्चयाभ्यां स्पर्शाे घटत इत्याशङ्कयाह;

स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु । आश्रित्य शब्दमात्रं सामान्यमिहांपि संभवतः ॥ ३२ ॥

 स्फुटेति । स्फुटं सत्यमर्थालंकारावेतावुपमासमुच्चयौ न कदापि स्वरूपं त्यजतः । किं तु शब्दमात्ररूपं सामान्यं साधारणं धर्ममाश्रित्य संभवतः । ताभ्यां योगो घटत इत्यर्थः । अर्थतो न सादृश्यं किं तु वाक्यद्वयसाधारणशब्दाश्रयं सादृश्यं विद्यत इति तात्पर्यार्थः ।
  उदाहरणमाह

यदनेकपयोधिभुजस्तवैव सदृशोऽस्यहीनसुरतरसः । ननु बलिजितः कथं ते सदृशस्तदसौ सुराधिकृतः ॥ ३३ ॥

यदिति । कश्चिदुच्यते त्वं तवैव सदृशो नान्यस्येत्यनन्वयानामुपमाविशेषणद्वारेण साम्यमाह कीदृशस्त्वम् । अनेकपानां द्विपानां योद्धा भुजो बाहुर्यस्यासावेनकपयोधिभुजः। तथाहीनः परिपूर्णाः सुरतरसो निधुवनरसो यस्यासावहीनसुरतरसः । तव कीदृशस्य । अनेकांश्चतुरः पयोधीन्समुद्रान्भुनक्ति रक्षतीत्यनेकपयोधिभुक्तस्य । तथाहीनामिनो नागराजः सुरा देवास्तेषामिव तरो बलं यस्यासावहीनसुरतरास्तस्य। अत्र

प्रथमानिर्दिष्टमुपमेयं षष्टीनिर्दिष्टमुपमानमनयोस्तु न वस्तुतः किंचिदपि साम्यमस्ति, किं तु तत्प्रतिच्छायशब्दप्रयोगात्साम्यं प्रतिभासते । एवमुत्तरत्रापि योज्यम् । किमिति । त्वं तवैव सदृशों न त्विन्द्रस्येत्याह—नन्वित्यादि । ते तव कथमसौ सदृश इति व्यतिरेकोऽयमलंकारः। कीदृशस्य ते । बलिन: समथीञ्जयत्यभिभवतीति बलिजित्तस्य बलिजितः। तथा सुराणामाधोन्मनःपीडाः कृन्ततीति सुराधिकृत्तस्य सुराधिकृतः । इन्द्रस्तु कीदृशः । बलिनाम्ना दांनवेन जितः पराभूतः । तथा सुरैरधिकृतो राज्ये नियोजितः । एवं त्वं सुराणामाधीञ्छिनत्सि, स तु सुरैरधिकृत इति स्फुट एव तवेन्द्रस्य च विशेषः । यत्तच्छब्दौ हेत्वथाै । नन्वमर्षे । यस्मात्वं तवैव सदृशस्तस्मात्तव कथमिन्द्रः सदृशो भवतीत्यर्थः ।

  उपमासमुच्चयोदाहरणमाह
 वसुधामहितसुराजितनरागमना भवांश्च वर्षाश्च ।
 सुरचितवराहवपुषस्तव च हरेश्चोपमा घटते ॥ ३४ ॥