पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
काव्यमाला ।

तदनारम् । तथा कलानां समूहः कालं चिनोत्यर्जयतीति कालचित् । अत्र प्रकृतयो व्यधिविदिप्रभृतयो भिन्नाः । प्रत्ययाः क्विबादय उभयत्रापि त एव । परहृदयादीन्युपपदानि च तान्येव । आगमश्च कालचिदादिपदेऽतोऽन्तागमादिकोऽनन्यः । ननु चैकत्र पक्षेऽतोऽन्तोऽस्ति द्वितीये नास्तीति कथमनन्यः । सत्यम् । नास्यान्योऽस्तीत्यनन्यो द्वितीयपक्षेऽन्यागमाभावादुच्यत इति सुस्थम् ।।

 अथ प्रत्ययश्लेषः—

  यत्र प्रकृतिप्रत्ययसमुदायानां भवत्यनेकेषाम् ।
  सारूप्यं प्रत्ययतः स ज्ञेयः प्रत्ययश्लेषः ॥ २६ ॥

 यत्रेति । यत्र प्रकृतिप्रत्ययसमुदायानां बहूनां प्रत्ययात्सकाशात्सारूप्यं समानरूपता भवति स प्रत्ययश्लेषो ज्ञातव्यः ॥

 उदाहरणम्—

  तापनमाजं पावनमारं हारं पराप दासेयः ।
  कारं चरणमाहितमाज दरं साधनं बहुशः ॥ २७ ॥

 तापनमिति । एष दासेयो दासीपुत्रश्चौरो हारं मुक्ताकलापं ह्रियमाणं वा वस्तु पराप मुषित्वा प्राप्तवान् । कीदृशम् । तापयतीति तापनम्। बन्धादिहेतुत्वात् । तथा अज्यते क्षिप्यतेऽनेनेत्याजयतीति वा आजम्। चौरो हि चारकादौ क्षिप्यते । तथा पावयतीति पावनः शुद्धिकृन्मारो मरणं यत्र तत्पावनमारम् । तथा स दासेयो हरणकाले दरं भयमाज चिक्षेप त्यक्तवान् । कीदृशं दरम् । सधनादीश्वरादागतं साधनम् । आहितं हृदये निहितम्। पुनः कीदृशं दरम् । करयोरिदं कारम् । तथा चरणयोः पादयोरिदं चारणम् । करचरणखण्डनादिभयं नाजीगणदित्यर्थः। यतोऽसौ बहूञ्श्यतीति बहुशः । बहवस्तेन धनाद्यपहारतस्तनूकृता इत्यर्थः। एष एकोऽर्थः ॥ द्वितीयस्तु—आसेय आरं गतिं परापत्प्राप्तवान् । 'षिञ् बन्धने' । आसेतव्य आसेयो मोक्षमप्राप्तो ज्ञानी भण्यते । ईषत्कर्मबन्धनात् । कीदृशमारम् । तपनस्येमं तापनम् । अजस्येममाजम् । पवनस्येमं पावनम् । हरस्येमं हारम् । सूर्यविष्णुवायुरुद्राणां संबन्धिनीं गतिं लेभ इत्यर्थः । यतोऽसौ कारं क्रियामाजत्यक्तवान् । कीदृशं कारम् । चारयति गमयति संसारे प्राणिनमिति चारणम् । पुनः कीदृशम् । अहितानां रागादीनामिदमाहितम् । किं तत् । साध्यतेऽनेनेति साधनम् । रागादीनामुपकरणमित्यर्थः। कथं साधनम् । बहुशोऽनेकशः । अरं शीघ्रम् । अत्र प्रत्ययवशात्प्रकृतिप्रत्ययसमुदायानां सारूप्यम् ॥

 अथ विभक्तिवचनश्लेषः—

  सारूप्यं यत्र सुपां तिङां तथा सर्वथा मिथो भवति ।
  सोऽत्र विभक्तिश्लेषो वचनश्लेषस्तु वचनानाम् ॥ २८ ॥

 सारूप्यमिति । यत्र सारूप्यं समानरूपता सुपां स्यादीनां तिङां त्यादीनां मिथः पर−