पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४ अध्यायः]
४५
काव्यालंकारः ।

प्रा० पै० अ० १४प्रा७ मा० सू० अ० १५ । पञ्चयोगे षट्। तद्यथा—सं० प्रा० मा० पै० सू० १, सं० प्र० मा० पै० अ० २,सं० मा० पै० सू० अ० ३, सं० प्रा० पै० सू० अ० ४, सं० प्रा०मा० सू० अ० ५, प्रा० मा० पै० सू० अ० ६ । षड्योगे त्वेक एव भेदः ।।

 तत्र षड्योगादिकप्रदर्शनायैकार्थश्लेषमेकमुदाहरणमाह—

  अकलङ्ककुल कलालय बहुलीलालोल विमलबाहुबल ।
  खलमौलिकलि कोमल मङ्गलकमलाललाम लल॥ २३ ॥

 अकलङ्केति । हे एवंविध, त्वं लल क्रीड । कीदृश । अकलङ्ककुल निर्मलान्वय । कलालय कलावास । बहुलीलालोल प्रचुरविलासलम्पट । विमलबाहुबल प्रकटभुजपराक्रम। खलमौलिकील दुर्जनशिरःशङ्को । कोमल कमनीय । मङ्गलकमलाललाम जयलक्ष्मीचिह्न । अत्रैकस्मिन्नर्थे भाषाषट्कस्यापि समानं रूपम् ।।

 अथ प्रकृतिश्लेषमाह—

  सिद्ध्यति यत्रानन्यैः सारूप्यं प्रत्ययागमोपपदैः ।
  प्रकृतीनां विविधानां प्रकृतिश्लेषः स विज्ञेयः ॥ २४ ॥

 सिद्ध्यतीति । यत्र प्रत्ययैरागमैरुपपदैश्चानन्यैस्तैरेव प्रकृतीनां तु नानाप्रकाराणां सारूप्यं समानरूपता सिद्ध्यति स प्रकृतिश्लेषः ॥

 तत्रोदाहरणमाह—

  परहृदयविदसुराहितप्राणनमत्काव्यकृत्सुधारसनुत् ।
  सौरमनारं कलयति सदसि महत्कालचित्सारम् ॥ २५ ॥

 परेति । देवासुरयुद्धं वर्ण्यते—सौरं सुरसमूहः कर्तृ कलयति कलिं गृह्णाति । युद्ध्यत इत्यर्थः । क्व सन्तः । अस्यन्ते क्षिप्यन्ते यत्र तत्सदस्तत्र सदसि युद्धे। सौरं कीदृशम्। परहृदयानि रिपुवक्षांसि विध्यतीति परहृदयवित् । तथासुरहितानां दानवपक्षपातिनां प्राणनं जीवनं मथ्नातीत्यसुरहितप्राणमत् । तथा काव्यं दानवगुरुं कृन्तति पीडयतीति काव्यकृत् । तथा सुधारसममृतरसं नौति स्तौतीति सुधारसनुत् । तथा देवत्वान्न विद्यते नारं नरसमूहो यत्र तदनारम्। तथा महत्प्रभूतम् । तथा काले कृत्यकरणसमये चिच्चैतन्यं ज्ञानं यस्य तत्कालचित्। तथा सहारेणारिसमूहेन वर्तते यत्तत्सारं यथा भवत्येवं कलयति। एष एकस्य वाक्यस्यार्थः । परस्यापि तादृशान्येव पदानि । सौरं सूरिसमूहः सारमुत्कृष्टं वस्तु न्याय्यं वा सदसि सभायां कलयतिं परिच्छिनत्ति । किं कुर्वत्सौरम् । महत्पूजयत्पूज्यजनम् । तथा परहृदयवित्परचित्तज्ञम् । तथासुरहितानां प्राणवर्जितानां प्राणनेन प्रत्युज्जीवनेन माद्यति हृष्यतीत्यसुरहितप्राणनमत् । तथा काव्यं कविकर्म करोतीति काव्यकृत् । तथा शोभनो धारो मर्यादादिधारणं येषां ते सुधाराः सुजनास्तान्स्यन्ति घ्नन्ति ये ते सुधारसाः खलास्तान्नुदति प्रेरयतीति सुधारसनुत् । तथा न विद्यत आरमरिसमूहो यस्य